Chapter 10
Divine Glories

Lyrics :

Introduction

ॐ श्रीपरमात्मने नमः।
अथ दशमोऽध्यायः।
विभूतियोगः॥

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

श्रीभगवानुवाच।
भूय एव महाबाहो
शृणु मे परमं वचः।
यत्तेऽहं प्रीयमाणाय
वक्ष्यामि हितकाम्यया॥

Verse 2

न मे विदुःसुरगणाः
प्रभवं न महर्षयः।
अहमादिर्हि देवानाम्
महर्षीणां च सर्वशः॥

Verse 3

यो मामजमनादिं च
वेत्ति लोकमहेश्वरम्।
असंमूढःस मर्त्येषु
सर्वपापैः प्रमुच्यते॥

Verse 4

बुद्धिर्ज्ञानमसम्मोहः
क्षमा सत्यं दमःशमः।
सुखं दुःखं भवोऽभावः
भयं चाभयमेव च॥

Verse 5

अहिंसा समता तुष्टिः
तपो दानं यशोऽयशः।
भवन्ति भावा भूतानाम्
मत्त एव पृथग्विधाः॥

Verse 6

महर्षयःसप्त पूर्वे
चत्वारो मनवस्तथा।
मद्भावा मानसा जाताः
येषां लोक इमाःप्रजाः॥

Verse 7

एतां विभूतिं योगं च
मम यो वेत्ति तत्त्वतः।
सोऽविकम्पेन योगेन
युज्यते नात्र संशयः॥

Verse 8

अहं सर्वस्य प्रभवः
इति मत्वा भजन्ते माम्
इति मत्वा भजन्ते माम्
बुधा भावसमन्विताः॥

Verse 9

मच्चित्ता मद्गतप्राणाः
बोधयन्तःपरस्परम्।
कथयन्तश्च मां नित्यम्
तुष्यन्ति च रमन्ति च॥

Verse 10

तेषां सततयुक्तानाम्
भजतां प्रीतिपूर्वकम्।
ददामि बुद्धियोगं तम्
येन मामुपयान्ति ते॥