Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Gītā Chanting
Chapter 10
Chapter 10
Divine Glories
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
31-42
Verse 11
तेषामेवानुकम्पार्थम्
अहमज्ञानजं तमः।
नाशयाम्यात्मभावस्थः
ज्ञानदीपेन भास्वता॥
Expand / Collapse
Verse 12
अर्जुन उवाच।
परं ब्रह्म परं धाम
पवित्रं परमं भवान्।
पुरुषं शाश्वतं दिव्यम्
आदिदेवमजं विभुम्॥
Expand / Collapse
Verse 13
आहुस्त्वामृषयःसर्वे
देवर्षिर्नारदस्तथा।
असितो देवलो व्यासः
स्वयं चैव ब्रवीषि मे॥
Expand / Collapse
Verse 14
सर्वमेतदृतं मन्ये
यन्मां वदसि केशव।
न हि ते भगवन्व्यक्तिम्
विदुर्देवा न दानवाः॥
Expand / Collapse
Verse 15
स्वयमेवात्मनात्मानम्
वेत्थ त्वं पुरुषोत्तम।
भूतभावन भूतेश
देवदेव जगत्पते॥
Expand / Collapse
Verse 16
वक्तुमर्हस्यशेषेण
दिव्या ह्यात्मविभूतयः॥
याभिर्विभूतिभिर्लोकान्
इमांस्त्वं व्याप्य तिष्ठसि॥
Expand / Collapse
Verse 17
कथं विद्यामहं योगिन्
त्वां सदा परिचिन्तयन्।
केषु केषु च भावेषु
चिन्त्योऽसि भगवन्मया॥
Expand / Collapse
Verse 18
विस्तरेणात्मनो योगं
विभूतिं च जनार्दन।
भूयः कथय तृप्तिर्हि
शृण्वतो नास्ति मेऽमृतम्॥
Expand / Collapse
Verse 19
श्रीभगवानुवाच।
हन्त ते कथयिष्यामि
दिव्या ह्यात्मविभूतयः।
प्राधान्यतःकुरुश्रेष्ठ
नास्त्यन्तो विस्तरस्य मे॥
Expand / Collapse
Verse 20
अहमात्मा गुडाकेश
सर्वभूताशयस्थितः।
अहमादिश्च मध्यं च
भूतानामन्त एव च॥
Expand / Collapse
Prev
Next