Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Gītā Chanting
Chapter 10
Chapter 10
Divine Glories
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
31-42
Verse 21
आदित्यानामहं विष्णुः
ज्योतिषां रविरंशुमान्।
मरीचिर्मरुतामस्मि
नक्षत्राणामहं शशी॥
Expand / Collapse
Verse 22
वेदानां सामवेदोऽस्मि
देवानामस्मि वासवः।
इन्द्रियाणां मनश्चास्मि
भूतानामस्मि चेतना॥
Expand / Collapse
Verse 23
रुद्राणां शङ्करश्चास्मि
वित्तेशो यक्षरक्षसाम्।
वसूनां पावकश्चास्मि
मेरुःशिखरिणामहम्॥
Expand / Collapse
Verse 24
पुरोधसां च मुख्यं माम्
विद्धि पार्थ बृहस्पतिम्।
सेनानीनामहं स्कन्दः
सरसामस्मि सागरः॥
Expand / Collapse
Verse 25
महर्षीणां भृगुरहम्
गिरामस्म्येकमक्षरम्।
यज्ञानां जपयज्ञोऽस्मि
स्थावराणां हिमालयः॥
Expand / Collapse
Verse 26
अश्वत्थःसर्ववृक्षाणाम्
देवर्षीणां च नारदः।
गन्धर्वाणां चित्ररथः
सिद्धानां कपिलो मुनिः॥
Expand / Collapse
Verse 27
उच्चैःश्रवसमश्वानाम्
विद्धि माममृतोद्भवम्।
ऐरावतं गजेन्द्राणाम्
नराणां च नराधिपम्॥
Expand / Collapse
Verse 28
आयुधानामहं वज्रम्
धेनूनामस्मि कामधुक्।
प्रजनश्चास्मि कर्दर्पः
सर्पाणामस्मि वासुकिः॥
Expand / Collapse
Verse 29
अनन्तश्चास्मि नागानाम्
वरुणो यादसामहम्।
पितॄणामर्यमा चास्मि
यमःसंयमतामहम्॥
Expand / Collapse
Verse 30
प्रह्लादश्चास्मि दैत्यानाम्
कालः कलयतामहम्।
मृगाणां च मृगेन्द्रोऽहम्
वैनतेयश्च पक्षिणाम्॥
Expand / Collapse
Prev
Next