Chapter 10
Divine Glories

Lyrics :

Verse 31

पवनःपवतामस्मि
रामःशस्त्रभृतामहम्।
झषाणां मकरश्चास्मि
स्रोतसामस्मि जाह्नवी॥

Verse 32

सर्गाणामादिरन्तश्च
मध्यं चैवाहमर्जुन।
अध्यात्मविद्या विद्यानाम्
वादःप्रवदातमहम्॥

Verse 33

अक्षराणामकारोऽस्मि
द्वन्द्वःसामासिकस्य च।
अहमेवाक्षयःकाल
धाताहं विश्वतोमुखः॥

Verse 34

मृत्युःसर्वहरश्चाहम्
उद्भवश्च भविष्यताम्।
कीर्तिःश्रीर्वाक्च नारीणाम्
स्मृतिर्मेधा धृतिः क्षमा॥

Verse 35

बृहत्साम तथा साम्नाम्
गायत्री छन्दसामहम्।
मासानां मार्गशीर्षोऽहम्
ऋतूनां कुसुमाकरः॥

Verse 36

द्यूतं छलयतामस्मि
तेजस्तजस्विनामहम्।
जयोऽस्मि व्यवसायोऽस्मि
सत्त्वं सत्त्ववतामहम्॥

Verse 37

वृष्णीनां वासुदेवोऽस्मि
पाण्डवानां धनञ्जयः।
मुनीनामप्यहं व्यासः
कवीनामुशना कविः॥

Verse 38

दण्डो दमयतामस्मि
नीतिरस्मि जिगीषताम्।
मौनं चैवास्मि गुह्यानाम्
ज्ञानं ज्ञानवतामहम्॥

Verse 39

यच्चापि सर्वभूतानाम्
बीजं तदहमर्जुन।
न तदस्ति विना यत्स्यात्
मया भूतं चराचरम्॥

Note: The fourth quarter has to chanted as acireṇādhigacchati.

Verse 40

नान्तोऽस्ति मम दिव्यानाम्
विभूतीनां परन्तप।
एष तूद्देशतःप्रोक्तः
विभूतेर्विस्तरो मया॥

Verse 41

यद्यद्विभूतिमत्सत्त्वम्
श्रीमदूर्जितमेव वा।
तत्तदेवावगच्छ त्वम्
मम तेजोंऽशसम्भवम्॥

Verse 42

अथवा बहुनैतेन
किं ज्ञातेन तवार्जुन।
विष्टभ्याहमिदं कृत्स्नम्
एकांशेन स्थितो जगत्॥

Conclusion

ॐ तत् सत् इति
श्रीमद्‌भगवद्‌गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम
दशमोऽध्यायः॥