Chapter 12
Path of Devotion

Lyrics :

Introduction

ॐ श्रीपरमात्मने नमः।
अथ द्वादशोऽध्यायः।
भक्तियोगः।

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

अर्जुन उवाच।
एवं सततयुक्ता ये
भक्तास्त्वां पर्युपासते।
येचाप्यक्षरमव्यक्तम्
तेषां के योगवित्तमाः॥

Verse 2

श्रीभगवानुवाच।
मय्यावेश्य मनो ये माम्
नित्ययुक्ता उपासते।
श्रद्धया परयोपेताः
ते मे युक्ततमा मताः॥

Verse 3

ये त्वक्षरमनिर्देश्यम्
अव्यक्तं पर्युपासते।
सर्वत्रगमचिन्त्यं च
कूटस्थमचलं ध्रुवम्॥

Verse 4

सन्नियम्येन्द्रियग्रामम्
सर्वत्र समबुद्धयः।
ते प्राप्नुवन्ति मामेव
सर्वभूतहिते रताः॥

Verse 5

क्लेशोऽधिकतरस्तेषाम्
अव्यक्तासक्तचेतसाम्।
अव्यक्ता हि गतिर्दुःखम्
देहवद्भिरवाप्यते॥

Verse 6

ये तु सर्वाणि कर्माणि
मयि सन्न्यस्य मत्पराः।
अनन्येनैव योगेन
मां ध्यायन्त उपासते॥

Verse 7

तेषामहं समुद्धर्ता
मृत्युसंसारसागरात्।
भवामि नचिरात्पार्थ
मय्यावेशितचेतसाम्॥

Verse 8

मय्येव मन आधत्स्व
मयि बुद्धिं निवेशय।
निवसिष्यसि मय्येव
अत ऊर्ध्वं न संशयः॥

Verse 9

अथ चित्तं समाधातुम्
न शक्नोषि मयि स्थिरम्।
अभ्यासयोगेन ततः
मामिच्छाप्तुं धनञ्जय॥

Verse 10

अभ्यासेऽप्यसमर्थोऽसि
मत्कर्मपरमो भव।
मदर्थमपि कर्माणि
कुर्वन्सिद्धिमवाप्स्यसि॥