Chapter 12
Path of Devotion

Lyrics :

Verse 11

अथैतदप्यशक्तोऽसि
कर्तुं मद्योगमाश्रितः।
सर्वकर्मफलत्यागम्
ततः कुरु यतात्मवान्॥

Verse 12

श्रेयो हि ज्ञानमभ्यासात्
ज्ञानाद्‌ध्यानं विशिष्यते।
ध्यानात्कर्मफलत्यागः
त्यागाच्छान्तिरनन्तरम्॥

Verse 13

अद्वेष्टा सर्वभूतानाम्
maitraḥ karuṇa eva ca
निर्ममो निरहङ्कारः
समदुःखसुखः क्षमी॥

Note: It is recommended to completely pronounce the visargaḥ at the end of the word- sukhaḥ, in the fourth quarter of this verse.

Verse 14

सन्तुष्टः सततं योगी
यतात्मा दृढनिश्चयः।
मय्यर्पितमनोबुद्धिः
यो मद्भक्तः स मे प्रियः॥

Verse 15

यस्मान्नोद्विजते लोकः
लोकान्नोद्विजते च यः।
हर्षामर्षभयोद्वेगैः
मुक्तो यः स च मे प्रियः॥

Verse 16

अनपेक्षः शुचिर्दक्षः
उदासीनो गतव्यथः।
सर्वारम्भपरित्यागी
यो मद्भक्तः स मे प्रियः॥

Verse 17

यो न हृष्यति न द्वेष्टि
न शोचति न काङ्क्षति।
शुभाशुभपरित्यागी
भक्तिमान्यः स मे प्रियः॥

Verse 18

समः शत्रौ च मित्रे च
तथा मानापमानयोः।
शीतोष्णसुखदुःखेषु
समः सङ्गविवर्जितः॥

Verse 19

तुल्यनिन्दास्तुतिर्मौनी
सन्तुष्टो येन केनचित्।
अनिकेतः स्थिरमतिः
भक्तिमान्मे प्रियो नरः॥

Verse 20

ये तु धर्म्यामृतमिदम्
यथोक्तं पर्युपासते।
श्रद्दधाना मत्परमाः
भक्तास्तेऽतीव मे प्रियाः॥

Conclusion

ॐ तत् सत् इति
श्रीमद्‌भगवद्‌गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम
द्वादशोऽध्यायः॥