Chapter 5
True Renunciation

Lyrics :

Introduction

ॐ श्रीपरमात्मने नमः।
अथ पञ्चमोऽध्यायः।
[ कर्मसन्न्यासयोगः। ]

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

अर्जुन उवाच।
सन्न्यासं कर्मणां कृष्ण
पुनर्योगं च शंससि।
यच्छ्रेय एतयोरेकम्
तन्मे ब्रूहि सुनिश्चितम्॥

Verse 2

श्रीभगवानुवाच।
सन्न्यासः कर्मयोगश्च
निःश्रेयसकरावुभौ।
तयोस्तु कर्मसन्न्यासात्
कर्मयोगो विशिष्यते॥

Verse 3

ज्ञेयः स नित्यसन्न्यासी
यो न द्वेष्टि न काङ्क्षति।
निर्द्वन्द्वो हि महाबाहो
सुखं बन्धात्प्रमुच्यते॥

Verse 4

साङ्ख्ययोगौ पृथग्बालाः
प्रवदन्ति न पण्डिताः।
एकमप्यास्थितः सम्यक्
उभयोर्विन्दते फलम्॥

Verse 5

यत्साङ्ख्यैः प्राप्यते स्थानम्
तद्योगैरपि गम्यते।
एकं साङ्ख्यं च योगं च
यः पश्यति स पश्यति॥

Verse 6

सन्न्यासस्तु महाबाहो
दुःखमाप्तुमयोगतः।
योगयुक्तो मुनिर्ब्रह्म
नचिरेणाधिगच्छति॥

Verse 7

योगयुक्तो विशुद्धात्मा
विजितात्मा जितेन्द्रियः।
सर्वभूतात्मभूतात्मा
कुर्वन्नपि न लिप्यते॥

Verse 8

नैव किञ्चित्करोमीति
युक्तो मन्येत तत्त्ववित्।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्
अश्नन्गच्छन्स्वपञ्श्वसन्॥

Verse 9

प्रलपन्विसृजन्गृह्णन्
उन्मिषन्निमिषन्नपि।
इन्द्रियाणीन्द्रियार्थेषु
वर्तन्त इति धारयन्॥

Verse 10

ब्रह्मण्याधाय कर्माणि
सङ्गं त्यक्त्वा करोति यः।
लिप्यते न स पापेन
पद्मपत्रमिवाम्भसा॥