Chapter 5
True Renunciation

Lyrics :

Verse 11

कायेन मनसा बुद्‌ध्या
केवलैरिन्द्रियैरपि।
योगिनः कर्म कुर्वन्ति
सङ्गं त्यक्त्वात्मशुद्धये॥

Verse 12

युक्तः कर्मफलं त्यक्त्वा
शान्तिमाप्नोति नैष्ठिकीम्।
अयुक्तः कामकारेण
फले सक्तो निबध्यते॥

Verse 13

सर्वकर्माणि मनसा
सन्न्यस्यास्ते सुखं वशी।
नवद्वारे पुरे देही
नैव कुर्वन्न कारयन्॥

Verse 14

न कर्तृत्वं न कर्माणि
लोकस्य सृजति प्रभुः।
न कर्मफलसंयोगम्
स्वभावस्तु प्रवर्तते॥

Verse 15

नादत्ते कस्यचित्पापम्
न चैव सुकृतं विभुः।
अज्ञानेनावृतं ज्ञानम्
तेन मुह्यन्ति जन्तवः॥

Verse 16

ज्ञानेन तु तदज्ञानम्
येषां नाशितमात्मनः।
तेषामादित्यवज्ज्ञानम्
प्रकाशयति तत्परम्॥

Verse 17

तद्‌बुद्धयस्तदात्मानः
तन्निष्ठास्तत्परायणाः।
गच्छन्त्यपुनरावृत्तिम्
ज्ञाननिर्धूतकल्मषाः॥

Verse 18

विद्याविनयसम्पन्ने
ब्राह्मणे गवि हस्तिनि।
शुनि चैव श्वपाके च
पण्डिताः समदर्शिनः॥

Verse 19

इहैव तैर्जितः सर्गः
येषां साम्ये स्थितं मनः।
निर्दोषं हि समं ब्रह्म
तस्माद्‌ब्रह्मणि ते स्थिताः॥

Verse 20

न प्रहृष्येत्प्रियं प्राप्य
नोद्विजेत्प्राप्य चाप्रियम्।
स्थिरबुद्धिरसम्मूढः
ब्रह्मविद्‌ब्रह्मणि स्थितः॥