Chapter 5
True Renunciation

Lyrics :

Verse 21

बाह्यस्पर्शेष्वसक्तात्मा
विन्दत्यात्मनि यत्सुखम्।
स ब्रह्मयोगयुक्तात्मा
सुखमक्षयमश्नुते॥

Verse 22

ये हि संस्पर्शजा भोगाः
दुःखयोनय एव ते।
आद्यन्तवन्तः कौन्तेय
न तेषु रमते बुधः॥

Verse 23

शक्नोतीहैव यः सोढुम्
प्राक्शरीरविमोक्षणात्।
कामक्रोधोद्भवं वेगम्
स युक्तः स सुखी नरः॥

Verse 24

योऽन्तः सुखोऽन्तरारामः
तथान्तर्ज्योतिरेव यः।
स योगी ब्रह्मनिर्वाणम्
ब्रह्मभूतोऽधिगच्छति॥

Verse 25

लभन्ते ब्रह्मनिर्वाणम्
ऋषयः क्षीणकल्मषाः।
छिन्नद्वैधा यतात्मानः
सर्वभूतहिते रताः॥

Note: It is recommended to completely pronounce the visargaḥ at the end of the word- ṛṣayaḥ, in the second quarter of this verse.

Verse 26

कामक्रोधवियुक्तानाम्
यतीनां यतचेतसाम्।
अभितो ब्रह्मनिर्वाणम्
वर्तते विदितात्मनाम्॥

Verse 27

स्पर्शान्कृत्वा बहिर्बाह्यान्
चक्षुश्चैवान्तरे भ्रुवोः।
प्राणापानौ समौ कृत्वा
नासाभ्यन्तरचारिणौ॥

Verse 28

यतेन्द्रियमनोबुद्धिः
मुनिर्मोक्षपरायणः।
विगतेच्छाभयक्रोधः
यः सदा मुक्त एव सः॥

Verse 29

भोक्तारं यज्ञतपसाम्
सर्वलोकमहेश्वरम्।
सुहृदं सर्वभूतानाम्
ज्ञात्वा मां शान्तिमृच्छति॥

Conclusion

ॐ तत् सत् इति
श्रीमद्‌भगवद्‌गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
कर्मसन्न्यासयोगो नाम
पञ्चमोऽध्यायः॥