Chapter 6
Meditation

Lyrics :

Introduction

[ ॐ श्रीपरमात्मने नमः। ]
अथ षष्ठोऽध्यायः।
[ आत्मसंयमयोगः। ]

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

श्रीभगवानुवाच।
अनाश्रितः कर्मफलम्
कार्यं कर्म करोति यः।
स सन्न्यासी च योगी च
न निरग्निर्न चाक्रियः॥

Verse 2

यं सन्न्यासमिति प्राहुः
योगं तं विद्धि पाण्डव।
न ह्यसन्न्यस्तसङ्कल्पः
योगी भवति कश्चन॥

Verse 3

आरुरुक्षोर्मुनेर्योगम्
कर्म काराणमुच्यते।
योगारुढस्य तस्यैव
शमः कारणमुच्यते॥

Verse 4

यदा हि नेन्द्रियार्थेषु
न कर्मस्वनुषज्जते।
सर्वसङ्कल्पसन्न्यासी
योगारूढस्तदोच्यते॥

Verse 5

उद्धरेदात्मनात्मानम्
नात्मानमवसादयेत्।
आत्मैव ह्यात्मनो बन्धुः
आत्मैव रिपुरात्मनः॥

Verse 6

बन्धुरात्मात्मनस्तस्य
येनात्मैवात्मना जितः।
अनात्मनस्तु शत्रुत्वे
वर्तेतात्मैव शत्रुवत्॥

Verse 7

जितात्मनः प्रशान्तस्य
परमात्मा समाहितः।
शीतोष्णसुखदुःखेषु
तथा मानापमानयोः।

Verse 8

ज्ञानविज्ञानतृप्तात्मा
कूटस्थो विजितेन्द्रियः।
युक्त इत्युच्यते योगी
समलोष्टाश्मकाञ्चनः॥

Verse 9

सुहृन्‌मित्रार्युदासीन-
मध्यस्थद्वेष्यबन्धुषु।
साधुष्वपि च पापेषु
समबुद्धिर्विशिष्यते॥

Verse 10

योगी युञ्जीत सततम्
आत्मानं रहसि स्थितः।
एकाकी यतचित्तात्मा
निराशीरपरिग्रहः॥