Chapter 6
Meditation

Lyrics :

Verse 11

शुचौ देशे प्रतिष्ठाप्य
स्थिरमासनमात्मनः।
नात्युच्छ्रितं नातिनीचम्
चैलाजिनकुशोत्तरम्॥

Verse 12

तत्रैकाग्रं मनः कृत्वा
यत चित्तेन्द्रियक्रियः।
उपविश्यासने युञ्ज्यात्
योगमात्मविशुद्धये॥

Verse 13

समं कायशिरोग्रीवम्
धारयन्नचलं स्थिरः।
सम्प्रेक्ष्य नासिकाग्रं स्वम्
दिशश्चानवलोकयन्॥

Verse 14

प्रशान्तात्मा विगतभीः
ब्रह्मचारिव्रते स्थितः।
मनः संयम्य मच्चित्तः
युक्त आसीत मत्परः।

Verse 15

युञ्जन्नेवं सदात्मानम्
योगी नियतमानसः।
शान्तिं निर्वाणपरमाम्
मत्संस्थामधिगच्छति॥

Verse 16

नात्यश्नतस्तु योगोऽस्ति
न चैकान्तमनश्नतः।
न चातिस्वप्नशीलस्य
जाग्रतो नैव चार्जुन॥

Verse 17

युक्ताहारविहारस्य
युक्त चेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य
योगो भवति दुःखहा॥

Verse 18

यदा विनियतं चित्तम्
आत्मन्येवावतिष्ठते।
निःस्पृहः सर्वकामेभ्यः
युक्त इत्युच्यते तदा॥

Verse 19

यथा दीपो निवातस्थः
नेङ्गते सोपमा स्मृता।
योगिनो यतचित्तस्य
युञ्जतो योगमात्मनः॥

Verse 20

यत्रोपरमते चित्तम्
निरुद्धं योगसेवया।
यत्र चैवात्मनात्मानम्
पश्यन्नात्मनि तुष्यति॥