Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Gītā Chanting
Chapter 6
Chapter 6
Meditation
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
31-40
41-47
Verse 21
सुखमात्यन्तिकं यत्तत्
बुद्धिग्राह्यमतीन्द्रियम्।
वेत्ति यत्र न चैवायम्
स्थितश्चलति तत्त्वतः॥
Expand / Collapse
Verse 22
यं लब्ध्वा चापरं लाभम्
मन्यते नाधिकं ततः।
यस्मिन्स्थितो न दुःखेन
गुरुणापि विचाल्यते॥
Expand / Collapse
Verse 23
तं विद्याद् दुःखसंयोग-
वियोगं योगसञ्ज्ञितम्।
स निश्चयेन योक्तव्यः
योगोऽनिर्विण्णचेतसा॥
Expand / Collapse
Verse 24
सङ्कल्पप्रभवान्कामान्
त्यक्त्वा सर्वानशेषतः।
मनसैवेन्द्रियग्रामम्
विनियम्य समन्ततः॥
Expand / Collapse
Verse 25
शनैः शनैरुपरमेत्
बुद्ध्या धृतिगृहीतया।
आत्मसंस्थं मनः कृत्वा
न किञ्चिदपि चिन्तयेत्॥
Expand / Collapse
Verse 26
यतो यतो निश्चरति
मनश्चञ्चलमस्थिरम्।
ततस्ततो नियम्यैतत्
आत्मन्येव वशं नयेत्॥
Expand / Collapse
Verse 27
प्रशान्तमनसं ह्येनम्
योगिनं सुखमुत्तमम्।
उपैति शान्तरजसम्
ब्रह्मभूतमकल्मषम्॥
Expand / Collapse
Verse 28
युञ्जन्नेवं सदात्मानम्
योगी विगतकल्मषः।
सुखेन ब्रह्मसंस्पर्शम्
अत्यन्तं सुखमश्नुते॥
Expand / Collapse
Verse 29
सर्वभूतस्थमात्मानम्
सर्वभूतानि चात्मनि।
ईक्षते योगयुक्तात्मा
सर्वत्र समदर्शनः॥
Expand / Collapse
Verse 30
यो मां पश्यति सर्वत्र
सर्वं च मयि पश्यति।
तस्याहं न प्रणश्यामि
स च मे न प्रणश्यति॥
Expand / Collapse
Prev
Next