Chapter 6
Meditation

Lyrics :

Verse 31

सर्वभूतस्थितं यो माम्
भजत्येकत्वमास्थितः।
सर्वथा वर्तमानोऽपि
स योगी मयि वर्तते॥

Verse 32

आत्मौपम्येन सर्वत्र
समं पश्यति योऽर्जुन।
सुखं वा यदि वा दुःखम्
स योगी परमो मतः॥

Verse 33

अर्जुन उवाच।
योऽयं योगस्त्वया प्रोक्तः
साम्येन मधुसूदन।
एतस्याहं न पश्यामि
चञ्चलत्वात्स्थितिं स्थिराम्॥

Verse 34

चञ्चलम् हि मनः कृष्ण
प्रमाथि बलवद्‌दृढम्।
तस्याहं निग्रहं मन्ये
वायोरिव सुदुष्करम्॥

Verse 35

श्रीभगवानुवाच।
असंशयं महाबाहो
मनो दुर्निग्रहं चलम्।
अभ्यासेन तु कौन्तेय
वैराग्येण च गृह्यते॥

Verse 36

असंयतात्मना योगः
दुष्प्राप इति मे मतिः।
वश्यात्मना तु यतता
शक्योऽवाप्तुमुपायतः॥

Verse 37

अर्जुन उवाच।
अयतिः श्रद्धयोपेतः
योगाच्चलितमानसः।
अप्राप्य योगसंसिद्धिम्
कां गतिं कृष्ण गच्छति॥

Verse 38

कच्चिन्नोभयविभ्रष्टः
छिन्नाभ्रमिव नश्यति।
अप्रतिष्ठो महाबाहो
विमूढो ब्रह्मणः पथि॥

Verse 39

एतन्मे संशयं कृष्ण
छेत्तुमर्हस्यशेषतः।
त्वदन्यः संशयस्यास्य
छेत्ता न ह्युपपद्यते॥३९॥

Verse 40

श्रीभगवानुवाच।
पार्थ नैवेह नामुत्र
विनाशस्तस्य विद्यते।
न हि कल्याणकृत्कश्चित्
दुर्गतिं तात गच्छति॥