Chapter 6
Meditation

Lyrics :

Verse 41

प्राप्य पुण्यकृतां लोकान्
उषित्वा शाश्वतीः समाः।
शुचीनां श्रीमतां गेहे
योगभ्रष्टोऽभिजायते॥

Verse 42

अथवा योगिनामेव
कुले भवति धीमताम्।
एतद्धि दुर्लभतरम्
लोके जन्म यदीदृशम्॥

Verse 43

तत्र तं बुद्धिसंयोगम्
लभते पौर्वदेहिकम्।
यतते च ततो भूयः
संसिद्धौ कुरुनन्दन॥

Verse 44

पूर्वाभ्यासेन तेनैव
ह्रियते ह्यवशोऽपि सः।
जिज्ञासुरपि योगस्य
शब्दब्रह्मातिवर्तते॥

Verse 45

प्रयत्नाद्यतमानस्तु
योगी संशुद्धकिल्बिषः।
अनेकजन्मसंसिद्धः
ततो याति परां गतिम्॥

Verse 46

तपस्विभ्योऽधिको योगी
ज्ञानिभ्योऽपि मतोऽधिकः।
कर्मिभ्यश्चाधिको योगी
तस्माद्योगी भवार्जुन॥

Verse 47

योगिनामपि सर्वेषाम्
मद्गतेनान्तरात्मना।
श्रद्धावान्भजते यो माम्
स मे युक्ततमो मतः॥

Conclusion

ॐ तत् सत् इति
श्रीमद्‌भगवद्‌गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
आत्मसंयमयोगो नाम षष्ठोऽध्यायः॥
श्रीकृष्णार्पणमस्तु॥