Chapter 7
Yoga of Knowledge & Wisdom

Lyrics :

Introduction

[ ॐ श्रीपरमात्मने नमः। ]
अथ सप्तमोऽध्यायः॥
ज्ञानविज्ञानयोगः॥

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

श्रीभगवानुवाच।
मय्यासक्तमनाः पार्थ
योगं युञ्जन्मदाश्रयः।
असंशयं समग्रं माम्
यथा ज्ञास्यसि तच्छृणु॥

Verse 2

ज्ञानं तेऽहं सविज्ञानम्
इदं वक्ष्याम्यशेषतः।
यज्ज्ञात्वा नेह भूयोऽन्यत्
ज्ञातव्यमवशिष्यते॥

Verse 3

मनुष्याणां सहस्रेषु
कश्चिद्यतति सिद्धये।
यततामपि सिद्धानाम्
कश्चिन्मां वेत्ति तत्त्वतः॥

Verse 4

भूमिरापोऽनलो वायुः
खं मनो बुद्धिरेव च।
अहङ्कार इतीयं मे
भिन्ना प्रकृतिरष्टधा॥

Verse 5

अपरेयमितस्त्वन्याम्
प्रकृतिं विद्धि मे पराम्।
जीवभूतां महाबाहो
ययेदं धार्यते जगत्॥

Verse 6

एतद्योनीनि भूतानि
सर्वाणीत्युपधारय।
अहं कृत्स्नस्य जगतः
प्रभवः प्रलयस्तथा॥

Verse 7

मत्तः परतरं नान्यत्
किञ्चिदस्ति धनञ्जय।
मयि सर्वमिदं प्रोतम्
सूत्रे मणिगणा इव॥

Verse 8

रसोऽहमप्सु कौन्तेय
प्रभास्मि शशिसूर्ययोः।
प्रणवः सर्ववेदेषु
शब्दः खे पौरुषं नृषु॥

Verse 9

पुण्यो गन्धः पृथिव्यां च
तेजश्चास्मि विभावसौ।
जीवनं सर्वभूतेषु
तपश्चास्मि तपस्विषु॥

Verse 10

बीजं मां सर्वभूतानम्
विद्धि पार्थ सनातनम्।
बुद्धिर्बुद्धिमतामस्मि
तेजस्तेजस्विनामहम्॥