Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Gītā Chanting
Chapter 7
Chapter 7
Yoga of Knowledge & Wisdom
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
Verse 21
यो यो यां यां तनुं भक्तः
श्रद्धयार्चितुमिच्छति।
तस्य तस्याचलां श्रद्धाम्
तामेव विदधाम्यहम्॥
Expand / Collapse
Verse 22
स तया श्रद्धया युक्तः
तस्याराधनमीहते।
लभते च ततःकामान्
मयैव विहितान्हि तान्॥
Expand / Collapse
Verse 23
अन्तवत्तु फलं तेषाम्
तद्भवत्यल्पमेधसाम्।
देवान्देवयजो यान्ति
मद्भक्ता यान्ति मामपि॥
Expand / Collapse
Verse 24
अव्यक्तं व्यक्तिमापन्नम्
मन्यन्ते मामबुद्धयः।
परं भावमजानन्तः
ममाव्ययमनुत्तमम्॥
Expand / Collapse
Verse 25
नाहं प्रकाशःसर्वस्य
योगमायासमावृतः।
मूढोऽयं नाभिजानाति
लोको मामजमव्ययम्॥
Expand / Collapse
Verse 26
वेदाहं समतीतानि
वर्तमानानि चार्जुन।
भविष्याणि च भूतानि
मां तु वेद न कश्चन॥
Expand / Collapse
Verse 27
इच्छाद्वेषसमुत्थेन
द्वन्द्वमोहेन भारत।
सर्वभूतानि सम्मोहम्
सर्गे यान्ति परन्तप॥
Expand / Collapse
Verse 28
येषां त्वन्तगतं पापम्
जनानां पुण्यकर्मणाम्।
ते द्वन्द्वमोहनिर्मुक्ताः
भजन्ते मां दृढव्रताः॥
Expand / Collapse
Verse 29
जरामरणमोक्षाय
मामाश्रित्य यतन्ति ये।
ते ब्रह्म तद्विदुःकृत्स्नम्
अध्यात्मं कर्म चाखिलम्॥
Expand / Collapse
Verse 30
साधिभूताधिदैवं माम्
साधियज्ञं च ये विदुः।
प्रयाणकालेऽपि च माम्
ते विदुर्युक्तचेतसः॥
Expand / Collapse
Conclusion
ॐ तत् सत् इति
श्रीमद्भगवद्गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
ज्ञानविज्ञानयोगो नाम
सप्तमोऽध्यायः॥
Prev
Next