Chapter 1
Arjuna’s Grief

Lyrics :

Introduction

[ ॐ श्रीपरमात्मने नमः। ]
अथ प्रथमोऽध्यायः।
अर्जुनविषादयोगः।

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

धृतराष्ट्र उवाच।
धर्मक्षेत्रे कुरुक्षेत्रे
समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव
किमकुर्वत सञ्जय॥

Verse 2

सञ्जय उवाच।
दृष्ट्वा तु पाण्डवानीकम्
व्यूढं दुर्योधनस्तदा।
आचार्यमुपसङ्गम्य
राजा वचनमब्रवीत्॥

Verse 3

पश्यैतां पाण्डुपुत्राणाम्
आचार्य महतीं चमूम्।
व्यूढां द्रुपदपुत्रेण
तव शिष्येण धीमता॥

Verse 4

अत्र शूरा महेष्वासाः
भीमार्जुनसमा युधि।
युयुधानो विराटश्च
द्रुपदश्च महारथः॥

Verse 5

धृष्टकेतुश्चेकितानः
काशिराजश्च वीर्यवान्।
पुरुजित्कुन्तिभोजश्च
शैब्यश्च नरपुङ्गवः॥

Verse 6

युधामन्युश्च विक्रान्तः
उत्तमौजाश्च वीर्यवान्।
सौभद्रो द्रौपदेयाश्च
सर्व एव महारथाः॥

Verse 7

अस्माकं तु विशिष्टा ये
तान्निबोध द्विजोत्तम।
नायका मम सैन्यस्य
सञ्ज्ञार्थं तान्ब्रवीमि ते॥

Verse 8

भवान्भीष्मश्च कर्णश्च
कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च
सौमदत्तिस्तथैव च॥

Verse 9

अन्ये च बहवः शूराः
मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः
सर्वे युद्धविशारदाः॥

Verse 10

अपर्याप्तं तदस्माकम्
बलं भीष्माभिरक्षितम्।
पर्याप्तं त्विदमेतेषाम्
बलं भीमाभिरक्षितम्॥