Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Gītā Chanting
Chapter 1
Chapter 1
Arjuna’s Grief
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
31-40
41-47
Verse 21
हृषीकेशं तदा वाक्यम्
इदमाह महीपते।
अर्जुन उवाच।
सेनयोरुभयोर्मध्ये
रथं स्थापय मेऽच्युत॥
Expand / Collapse
Verse 22
यावदेतान्निरीक्षेऽहम्
योद्धुकामानवस्थितान्।
कैर्मया सह योद्धव्यम्
अस्मिन् रणसमुद्यमे॥
Expand / Collapse
Verse 23
योत्स्यमानानवेक्षेऽहम्
य एतेऽत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धेः
युद्धे प्रियचिकीर्षवः॥
Expand / Collapse
Verse 24
सञ्जय उवाच।
एवमुक्तो हृषीकेशः
गुडाकेशेन भारत।
सेनयोरुभयोर्मध्ये
स्थापयित्वा रथोत्तमम्॥
Expand / Collapse
Verse 25
भीष्मद्रोणप्रमुखतः
सर्वेषां च महीक्षिताम्।
उवाच पार्थ पश्यैतान्
समवेतान्कुरूनिति॥
Expand / Collapse
Verse 26
तत्रापश्यत्स्थितान्पार्थः
पितॄनथ पितामहान्।
आचार्यान्मातुलान्भ्रातॄन्
पुत्रान्पौत्रान्सखींस्तथा॥
Expand / Collapse
Verse 27
श्वशुरान्सुहृदश्चैव
सेनयोरुभयोरपि।
तान्समीक्ष्य स कौन्तेयः
सर्वान्बन्धूनवस्थितान्॥
Expand / Collapse
Verse 28
कृपया परयाविष्टः
विषीदन्निदमब्रवीत्।
अर्जुन उवाच।
दृष्ट्वेमं स्वजनं कृष्ण
युयुत्सुं समुपस्थितम्॥
Expand / Collapse
Verse 29
सीदन्ति मम गात्राणि
मुखं च परिशुष्यति।
वेपथुश्च शरीरे मे
रोमहर्षश्च जायते॥
Expand / Collapse
Verse 30
गाण्डीवं स्रंसते हस्तात्
त्वक्चैव परिदह्यते।
न च शक्नोम्यवस्थातुम्
भ्रमतीव च मे मनः॥
Expand / Collapse
Prev
Next