Chapter 1
Arjuna’s Grief

Lyrics :

Verse 11

अयनेषु च सर्वेषु
यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु
भवन्तः सर्व एव हि॥

Verse 12

तस्य सञ्जनयन्हर्षम्
कुरुवृद्धः पितामहः।
सिंहनादं विनद्योच्चैः
शङ्खं दध्मौ प्रतापवान्॥

Verse 13

ततः शङ्खाश्च भेर्यश्च
पणवानकगोमुखाः।
सहसैवाभ्यहन्यन्त
स शब्दस्तुमुलोऽभवत्॥

Verse 14

ततः श्वेतैर्हयैर्युक्ते
महति स्यन्दने स्थितौ।
माधवः पाण्डवश्चैव
दिव्यौ शङ्खौ प्रदध्मतुः॥

Verse 15

पाञ्चजन्यं हृषीकेशः
देवदत्तं धनञ्जयः।
पौण्ड्रं दध्मौ महाशङ्खम्
भीमकर्मा वृकोदरः॥

Verse 16

अनन्तविजयं राजा
कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश्च
सुघोषमणिपुष्पकौ॥

Verse 17

काश्यश्च परमेष्वासः
शिखण्डी च महारथः।
धृष्टद्युम्नो विराटश्च
सात्यकिश्चापराजितः॥

Verse 18

द्रुपदो द्रौपदेयाश्च
सर्वशः पृथिवीपते।
सौभद्रश्च महाबाहुः
शङ्खान्दध्मुः पृथक्पृथक्॥

Verse 19

स घोषो धार्तराष्ट्राणाम्
हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव
तुमुलो व्यनुनादयन्॥

Verse 20

अथ व्यवस्थितान्दृष्ट्वा
धार्तराष्ट्रान्कपिध्वजः।
प्रवृत्ते शस्त्रसम्पाते
धनुरुद्यम्य पाण्डवः॥