Chapter 1
Arjuna’s Grief

Lyrics :

Verse 21

हृषीकेशं तदा वाक्यम्
इदमाह महीपते।
अर्जुन उवाच।
सेनयोरुभयोर्मध्ये
रथं स्थापय मेऽच्युत॥

Verse 22

यावदेतान्निरीक्षेऽहम्
योद्धुकामानवस्थितान्।
कैर्मया सह योद्धव्यम्
अस्मिन् रणसमुद्यमे॥

Verse 23

योत्स्यमानानवेक्षेऽहम्
य एतेऽत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धेः
युद्धे प्रियचिकीर्षवः॥

Verse 24

सञ्जय उवाच।
एवमुक्तो हृषीकेशः
गुडाकेशेन भारत।
सेनयोरुभयोर्मध्ये
स्थापयित्वा रथोत्तमम्॥

Verse 25

भीष्मद्रोणप्रमुखतः
सर्वेषां च महीक्षिताम्।
उवाच पार्थ पश्यैतान्
समवेतान्कुरूनिति॥

Verse 26

तत्रापश्यत्स्थितान्पार्थः
पितॄनथ पितामहान्।
आचार्यान्मातुलान्भ्रातॄन्
पुत्रान्पौत्रान्सखींस्तथा॥

Verse 27

श्वशुरान्सुहृदश्चैव
सेनयोरुभयोरपि।
तान्समीक्ष्य स कौन्तेयः
सर्वान्बन्धूनवस्थितान्॥

Verse 28

कृपया परयाविष्टः
विषीदन्निदमब्रवीत्।
अर्जुन उवाच।
दृष्ट्वेमं स्वजनं कृष्ण
युयुत्सुं समुपस्थितम्॥

Verse 29

सीदन्ति मम गात्राणि
मुखं च परिशुष्यति।
वेपथुश्च शरीरे मे
रोमहर्षश्च जायते॥

Verse 30

गाण्डीवं स्रंसते हस्तात्
त्वक्‍चैव परिदह्यते।
न च शक्नोम्यवस्थातुम्
भ्रमतीव च मे मनः॥