Chapter 1
Arjuna’s Grief

Lyrics :

Verse 31

निमित्तानि च पश्यामि
विपरीतानि केशव।
न च श्रेयोऽनुपश्यामि
हत्वा स्वजनमाहवे॥

Verse 32

न काङ्क्षे विजयं कृष्ण
न च राज्यं सुखानि च।
किं नो राज्येन गोविन्द
किं भोगैर्जीवितेन वा॥

Verse 33

येषामर्थे काङ्क्षितं नः
राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे
प्राणांस्त्यक्त्वा धनानि च॥

Verse 34

आचार्याः पितरः पुत्राः
तथैव च पितामहाः।
मातुलाः श्वशुराः पौत्राः
श्यालाः सम्बन्धिनस्तथा॥

Verse 35

एतान्न हन्तुमिच्छामि
घ्नतोऽपि मधुसूदन।
अपि त्रैलोक्यराज्यस्य
हेतोः किं नु महीकृते॥

Verse 36

निहत्य धार्तराष्ट्रान्नः
का प्रीतिः स्याज्जनार्दन।
पापमेवाश्रयेदस्मान्
हत्वैतानाततायिनः॥

Verse 37

तस्मान्नार्हा वयं हन्तुम्
धार्तराष्ट्रान्स्वबान्धवान्।
स्वजनं हि कथं हत्वा
सुखिनः स्याम माधव॥

Verse 38

यद्यप्येते न पश्यन्ति
लोभोपहतचेतसः।
कुलक्षयकृतं दोषम्
मित्रद्रोहे च पातकम्॥

Verse 39

कथं न ज्ञेयमस्माभिः
पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषम्
प्रपश्यद्भिर्जनार्दन॥

Verse 40

कुलक्षये प्रणश्यन्ति
कुलधर्माः सनातनाः।
धर्मे नष्टे कुलं कृत्स्नम्
अधर्मोऽभिभवत्युत॥