Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Gītā Chanting
Chapter 1
Chapter 1
Arjuna’s Grief
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
31-40
41-47
Verse 41
अधर्माभिभवात्कृष्ण
प्रदुष्यन्ति कुलस्त्रियः।
स्त्रीषु दुष्टासु वार्ष्णेय
जायते वर्णसङ्करः॥
Expand / Collapse
Verse 42
सङ्करो नरकायैव
कुलघ्नानां कुलस्य च।
पतन्ति पितरो ह्येषाम्
लुप्तपिण्डोदकक्रियाः॥
Expand / Collapse
Verse 43
दोषैरेतैः कुलघ्नानाम्
वर्णसङ्करकारकैः।
उत्साद्यन्ते जातिधर्माः
कुलधर्माश्च शाश्वताः॥
Expand / Collapse
Verse 44
उत्सन्नकुलधर्माणाम्
मनुष्याणां जनार्दन।
नरकेऽनियतं वासः
भवतीत्यनुशुश्रुम॥
Expand / Collapse
Verse 45
अहो बत महत्पापम्
कर्तुं व्यवसिता वयम्।
यद्राज्यसुखलोभेन
हन्तुं स्वजनमुद्यताः॥
Expand / Collapse
Verse 46
यदि मामप्रतीकारम्
अशस्त्रं शस्त्रपाणयः।
धार्तराष्ट्रा रणे हन्युः
तन्मे क्षेमतरं भवेत्॥
Expand / Collapse
Verse 47
सञ्जय उवाच।
एवमुक्त्वार्जुनः सङ्ख्ये
रथोपस्थ उपाविशत्।
विसृज्य सशरं चापम्
शोकसंविग्नमानसः॥
Expand / Collapse
Conclusion
ॐ तत् सत् इति
श्रीमद्भगवद्गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
अर्जुनविषादयोगो नाम
श्रीकृष्णार्पणमस्तु॥
Prev
Next