Chapter 15
The Supreme Spirit

Lyrics :

Introduction

ॐ श्रीपरमात्मने नमः।
अथ पञ्चदशोऽध्यायः।
पुरुषोत्तमयोगः।

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

श्रीभगवानुवाच।
ऊर्ध्वमूलमधः शाखम्
अश्वत्थं प्राहुरव्ययम्।
छन्दांसि यस्य पर्णानि
यस्तं वेद स वेदवित्॥

Verse 2

अधश्चोर्ध्वं प्रसृतास्तस्य शाखाः
गुणप्रवृद्धा विषयप्रवालाः।
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके॥

Verse 3

न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा।
अश्वत्थमेनं सुविरूढमूलम्
असङ्गशस्त्रेण दृढेन छित्त्वा॥

Verse 4

ततः पदं तत्परिमार्गितव्यम्
यस्मिन्गता न निवर्तन्ति भूयः।
तमेव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी॥

Verse 5

निर्मानमोहा जितसङ्गदोषाः
अध्यात्मनित्या विनिवृत्तकामाः।
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैः
गच्छन्त्यमूढाः पदमव्ययं तत्॥

Verse 6

न तद्भासयते सूर्यः
न शशाङ्को न पावकः।
यद्गत्वा न निवर्तन्ते
तद्धाम परमं मम॥

Verse 7

ममैवांशो जीवलोके
जीवभूतः सनातनः।
मनःषष्ठानीन्द्रियाणि
प्रकृतिस्थानि कर्षति॥

Verse 8

शरीरं यदवाप्नोति
यच्चाप्युत्क्रामतीश्वरः।
गृहीत्वैतानि संयाति
वायुर्गन्धानिवाशयात्॥

Verse 9

श्रोत्रं चक्षुः स्पर्शनं च
रसनं घ्राणमेव च।
अधिष्ठाय मनश्चायम्
विषयानुपसेवते॥

Verse 10

उत्क्रामन्तं स्थितं वापि
भुञ्जानं वा गुणान्वितम्।
विमूढा नानुपश्यन्ति
पश्यन्ति ज्ञानचक्षुषः॥