Chapter 15
The Supreme Spirit

Lyrics :

Verse 11

यतन्तो योगिनश्चैनम्
पश्यन्त्यात्मन्यवस्थितम्।
यतन्तोऽप्यकृतात्मानः
नैनं पश्यन्त्यचेतसः॥

Verse 12

यदादित्यगतं तेजः
जगद्भासयतेऽखिलम्।
यच्चन्द्रमसि यच्चाग्नौ
तत्तेजोविद्धि मामकम्॥

Verse 13

गामाविश्य च भूतानि
धारयाम्यहमोजसा।
पुष्णामि चौषधीः सर्वाः
सोमो भूत्वा रसात्मकः॥

Verse 14

अहं वैश्वानरो भूत्वा
प्राणिनां देहमाश्रितः।
प्राणापानसमायुक्तः
पचाम्यन्नं चतुर्विधम्॥

Verse 15

सर्वस्य चाहं हृदि सन्निविष्टः
मत्तः स्मृतिर्ज्ञानमपोहनं च।
वेदैश्च सर्वैरहमेव वेद्यः
वेदान्तकृद्वेदविदेव चाहम्॥

Verse 16

द्वाविमौ पुरुषौ लोके
क्षरश्चाक्षर एव च।
क्षरः सर्वाणि भूतानि
कूटस्थोऽक्षर उच्यते॥

Verse 17

उत्तमः पुरुषस्त्वन्यः
परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य
बिभर्त्यव्यय ईश्वरः॥

Verse 18

यस्मात्क्षरमतीतोऽहम्
अक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदे च
प्रथितः पुरुषोत्तमः॥

Verse 19

यो मामेवमसम्मूढः
जानाति पुरुषोत्तमम्।
स सर्वविद्भजति माम्
सर्वभावेन भारत॥

Verse 20

इति गुह्यतमं शास्त्रम्
इदमुक्तं मयानघ।
एतद्‌बुद्‌ध्वा बुद्धिमान्स्यात्
कृतकृत्यश्च भारत॥

Conclusion

ॐ तत् सत् इति
श्रीमद्‌भगवद्‌गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
पुरुषोत्तमयोगो नाम
पञ्चदशोऽध्यायः॥