Chapter 4
Ending Action In Knowledge

Lyrics :

Introduction

ॐ श्रीपरमात्मने नमः।
अथ चतुर्थोऽध्यायः।
ज्ञानकर्मसन्न्यासयोगः।

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

श्रीभगवानुवाच।
इमं विवस्वते योगम्
प्रोक्तवानहमव्ययम्।
विवस्वान्मनवे प्राह
मनुरिक्ष्वाकवेऽब्रवीत्॥

Verse 2

एवं परम्पराप्राप्तम्
इमं राजर्षयो विदुः।
स कालेनेह महता
योगो नष्टः परन्तप॥

Verse 3

स एवायं मया तेऽद्य
योगः प्रोक्तः पुरातनः।
भक्तोऽसि मे सखा चेति
रहस्यं ह्येतदुत्तमम्॥

Verse 4

अर्जुन उवाच।
अपरं भवतो जन्म
परं जन्म विवस्वतः।
कथमेतद्विजानीयाम्
त्वमादौ प्रोक्तवानिति॥

Verse 5

श्रीभगवानुवाच।
बहूनि मे व्यतीतानि
जन्मानि तव चार्जुन।
तान्यहं वेद सर्वाणि
न त्वं वेत्थ परन्तप॥

Verse 6

अजोऽपि सन्नव्ययात्मा
भूतानामीश्वरोऽपि सन्।
प्रकृतिं स्वामधिष्ठाय
सम्भवाम्यात्ममायया॥

Verse 7

यदा यदा हि धर्मस्य
ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस
तदात्मानं सृजाम्यहम्॥

Verse 8

परित्राणाय साधूनाम्
विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय
सम्भवामि युगे युगे॥

Verse 9

जन्म कर्म च मे दिव्यम्
एवं यो वेत्ति तत्त्वतः।
त्यक्त्वा देहं पुनर्जन्म
नैति मामेति सोऽर्जुन॥

Verse 10

वीतरागभयक्रोधाः
मन्मया मामुपाश्रिताः।
बहवो ज्ञानतपसा
पूता मद्भावमागताः॥