Chapter 4
Ending Action In Knowledge

Lyrics :

Verse 11

ये यथा मां प्रपद्यन्ते
तांस्तथैव भजाम्यहम्।
मम वर्त्मानुवर्तन्ते
मनुष्याः पार्थ सर्वशः॥

Verse 12

काङ्क्षन्तः कर्मणां सिद्धिम्
यजन्त इह देवताः।
क्षिप्रं हि मानुषे लोके
सिद्धिर्भवति कर्मजा॥

Verse 13

चातुर्वर्ण्यं मया सृष्टम्
गुणकर्मविभागशः।
तस्य कर्तारमपि माम्
विद्‌ध्यकर्तारमव्ययम्॥

Verse 14

न मां कर्माणि लिम्पन्ति
न मे कर्मफले स्पृहा।
इति मां योऽभिजानाति
कर्मभिर्न स बध्यते॥

Verse 15

एवं ज्ञात्वा कृतं कर्म
पूर्वैरपि मुमुक्षुभिः।
कुरु कर्मैव तस्मात्त्वम्
पूर्वैः पूर्वतरं कृतम्॥

Note: It is recommended to chant without splitting and pausing after pūrvaiḥ in the fourth quarter of this verse.

Verse 16

किं कर्म किमकर्मेति
कवयोऽप्यत्र मोहिताः।
तत्ते कर्म प्रवक्ष्यामि
यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥

Verse 17

कर्मणो ह्यपि बोद्धव्यम्
बोद्धव्यं च विकर्मणः।
अकर्मणश्च बोद्धव्यम्
गहना कर्मणो गतिः॥

Verse 18

कर्मण्यकर्म यः पश्येत्
अकर्मणि च कर्म यः।
स बुद्धिमान्मनुष्येषु
स युक्तः कृत्स्नकर्मकृत्॥

Verse 19

यस्य सर्वे समारम्भाः
कामसङ्कल्पवर्जिताः।
ज्ञानाग्निदग्धकर्माणम्
तमाहुः पण्डितं बुधाः॥

Verse 20

त्यक्त्वा कर्मफलासङ्गम्
नित्यतृप्तो निराश्रयः।
कर्मण्यभिप्रवृत्तोऽपि
नैव किञ्चित्करोति सः॥