Chapter 4
Ending Action In Knowledge

Lyrics :

Verse 21

निराशीर्यतचित्तात्मा
त्यक्तसर्वपरिग्रहः।
शारीरं केवलं कर्म
कुर्वन्नाप्नोति किल्बिषम्॥

Verse 22

यदृच्छालाभसन्तुष्टः
द्वन्द्वातीतो विमत्सरः।
समः सिद्धावसिद्धौ च
कृत्वापि न निबध्यते॥

Verse 23

गतसङ्गस्य मुक्तस्य
ज्ञानावस्थितचेतसः।
यज्ञायाचरतः कर्म
समग्रं प्रविलीयते॥

Verse 24

ब्रह्मार्पणं ब्रह्म हविः
ब्रह्माग्नौ ब्रह्मणा हुतम्।
ब्रह्मैव तेन गन्तव्यम्
ब्रह्मकर्मसमाधिना॥

Verse 25

दैवमेवापरे यज्ञम्
योगिनः पर्युपासते।
ब्रह्माग्नावपरे यज्ञम्
यज्ञेनैवोपजुह्वति॥

Verse 26

श्रोत्रादीनीन्द्रियाण्यन्ये
संयमाग्निषु जुह्वति।
शब्दादीन्विषयानन्
इन्द्रियाग्निषु जुह्वति॥

Note: It is recommended to chant without splitting and pausing after śrotrādīn in the first quarter of this verse.

Verse 27

सर्वाणीन्द्रियकर्माणि
प्राणकर्माणि चापरे।
आत्मसंयमयोगाग्नौ
जुह्वति ज्ञानदीपिते॥

Verse 28

द्रव्ययज्ञास्तपोयज्ञाः
योगयज्ञास्तथापरे।
स्वाध्यायज्ञानयज्ञाश्च
यतयः संशितव्रताः॥

Verse 29

अपाने जुह्वति प्राणम् 
प्राणेऽपानं तथापरे।
प्राणापानगती रुद्‌ध्वा  
प्राणायामपरायणाः॥

Verse 30

अपरे नियताहाराः
प्राणान्प्राणेषु जुह्वति।
सर्वेऽप्येते यज्ञविदः
यज्ञक्षपितकल्मषाः॥