Chapter 9
The Royal Secret

Lyrics :

Introduction

[ ॐ श्रीपरमात्मने नमः। ]
अथ नवमोऽध्यायः।
राजविद्याराजगुह्ययोगः।

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

श्रीभगवानुवाच।
इदं तु ते गुह्यतमम्
प्रवक्ष्याम्यनसूयवे।
ज्ञानं विज्ञानसहितम्
यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥

Verse 2

राजविद्या राजगुह्यम्
पवित्रमिदमुत्तमम्।
प्रत्यक्षावगमं धर्म्यम्
सुसुखं कर्तुमव्ययम्॥

Verse 3

अश्रद्दधानाः पुरुषाः
धर्मस्यास्य परन्तप।
अप्राप्य मां निवर्तन्ते
मृत्युसंसारवर्त्मनि॥

Verse 4

मया ततमिदं सर्वम्
जगदव्यक्तमूर्तिना।
मत्स्थानि सर्वभूतानि
न चाहं तेष्ववस्थितः॥

Verse 5

न च मत्स्थानि भूतानि
पश्य मे योगमैश्वरम्॥
भूतभृन्न च भूतस्थः
ममात्मा भूतभावनः॥

Verse 6

यथाकाशस्थितो नित्यम्
वायुः सर्वत्रगो महान्।
तथा सर्वाणि भूतानि
मत्स्थानीत्युपधारय॥

Verse 7

सर्वभूतानि कौन्तेय
प्रकृतिं यान्ति मामिकाम्।
कल्पक्षये पुनस्तानि
कल्पादौ विसृजाम्यहम्॥

Verse 8

प्रकृतिं स्वामवष्टभ्य
विसृजामि पुनः पुनः।
भूतग्राममिमं कृत्स्नम्
अवशं प्रकृतेर्वशात्॥

Verse 9

न च मां तानि कर्माणि
निबध्नन्ति धनञ्जय।
उदासीनवदासीनम्
असक्तं तेषु कर्मसु॥

Verse 10

मयाध्यक्षेण प्रकृतिः
सूयते सचराचरम्।
हेतुनानेन कौन्तेय
जगद्विपरिवर्तते॥