Chapter 9
The Royal Secret

Lyrics :

Verse 11

अवजानन्ति मां मूढाः
मानुषीं तनुमाश्रितम्।
परं भावमजानन्तः
मम भूतमहेश्वरम्॥

Verse 12

मोघाशा मोघकर्माणः
मोघज्ञाना विचेतसः।
राक्षसीमासुरीं चैव
प्रकृतिं मोहिनीं श्रिताः॥

Verse 13

महात्मानस्तु मां पार्थ
दैवीं प्रकृतिमाश्रिताः।
भजन्त्यनन्यमनसः
ज्ञात्वा भूतादिमव्ययम्॥

Verse 14

सततं कीर्तयन्तो माम्
यतन्तश्च दृढव्रताः।
नमस्यन्तश्च मां भक्त्या
नित्ययुक्ता उपासते।

Verse 15

ज्ञानयज्ञेन चाप्यन्ये
यजन्तो मामुपासते।
एकत्वेन पृथक्त्वेन
बहुधा विश्वतोमुखम्॥

Verse 16

अहं क्रतुरहं यज्ञः
स्वधाहमहमौषधम्।
मन्त्रोऽहमहमेवाज्यम्
अहमग्निरहं हुतम्॥

Verse 17

पिताहमस्य जगतः
माता धाता पितामहः।
वेद्यं पवित्रमोङ्कारः
ऋक्सामयजुरेव च॥

Verse 18

गतिर्भर्ता प्रभुः साक्षी
निवासः शरणं सुहृत्।
प्रभवः प्रलयः स्थानम्
निधानं बीजमव्ययम्॥

Verse 19

तपाम्यहमहं वर्षम्
निगृह्णाम्युत्सृजामि च।
अमृतं चैव मृत्युश्च
सदसच्चाहमर्जुन॥

Verse 20

त्रैविद्या मां सोमपाः पूतपापाः
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।
ते पुण्यमासाद्य सुरेन्द्रलोकम्
अश्नन्ति दिव्यान्दिवि देवभोगान्॥