Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Gītā Chanting
Chapter 9
Chapter 9
The Royal Secret
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-34
Verse 21
ते तं भुक्त्वा स्वर्गलोकं विशालम्
क्षीणे पुण्ये मर्त्यलोकं विशन्ति।
एवं त्रयीधर्ममनुप्रपन्नाः
गतागतं कामकामा लभन्ते॥
Expand / Collapse
Verse 22
अनन्याश्चिन्तयन्तो माम्
ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानाम्
योगक्षेमं वहाम्यहम्॥
Expand / Collapse
Verse 23
येऽप्यन्यदेवता भक्ताः
यजन्ते श्रद्धयान्विताः।
तेऽपि मामेव कौन्तेय
यजन्त्यविधिपूर्वकम्॥
Expand / Collapse
Verse 24
अहं हि सर्वयज्ञानाम्
भोक्ता च प्रभुरेव च।
न तु मामभिजानन्ति
तत्त्वेनातश्च्यवन्ति ते॥
Expand / Collapse
Verse 25
यान्ति देवव्रता देवान्
पितॄन्यान्ति पितृव्रताः।
भूतानि यान्ति भूतेज्याः
यान्ति मद्याजिनोऽपि माम्॥
Expand / Collapse
Verse 26
पत्रं पुष्पं फलं तोयम्
यो मे भक्त्या प्रयच्छति।
तदहं भक्त्युपहृतम्
अश्नामि प्रयतात्मनः॥
Expand / Collapse
Verse 27
यत्करोषि यदश्नासि
यज्जुहोषि ददासि यत्।
यत्तपस्यसि कौन्तेय
तत्कुरुष्व मदर्पणम्॥
Expand / Collapse
Verse 28
शुभाशुभफलैरेवम्
मोक्ष्यसे कर्मबन्धनैः।
सन्न्यासयोगयुक्तात्मा
विमुक्तो मामुपैष्यसि॥
Expand / Collapse
Verse 29
समोऽहम् सर्वभूतेषु
न मे द्वेष्योऽस्ति न प्रियः।
ये भजन्ति तु मां भक्त्या
मयि ते तेषु चाप्यहम्॥
Expand / Collapse
Verse 30
अपि चेत्सुदुराचारः
भजते मामनन्यभाक्।
साधुरेव स मन्तव्यः
सम्यग्व्यवसितो हि सः॥
Expand / Collapse
Verse 31
क्षिप्रं भवति धर्मात्मा
शश्वच्छान्तिं निगच्छति।
कौन्तेय प्रतिजानीहि
न मे भक्तः प्रणश्यति॥
Expand / Collapse
Verse 32
मां हि पार्थ व्यपाश्रित्य
येऽपि स्युः पापयोनयः।
स्त्रियो वैश्यास्तथा शूद्राः
तेऽपि यान्ति परां गतिम्॥
Expand / Collapse
Verse 33
किं पुनर्ब्राह्मणाः पुण्याः
भक्ता राजर्षयस्तथा।
अनित्यमसुखं लोकम्
इमं प्राप्य भजस्व माम्॥
Expand / Collapse
Verse 34
मम्मना भव मद्भक्तः
मद्याजी मां नमस्कुरु।
मामेवैष्यसि युक्त्वैवम्
आत्मानं मत्परायणः॥
Expand / Collapse
Conclusion
ॐ तत् सत् इति
श्रीमद्भगवद्गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम
नवमोऽध्यायः॥
Prev
Next