Chapter 11
The divine cosmic form

Lyrics :

Introduction

[ ॐ श्रीपरमात्मने नमः। ]
अथ एकादशोऽध्यायः।
विश्वरूपदर्शनयोगः।

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

अर्जुन उवाच।
मदनुग्रहाय परमम्
गुह्यमध्यात्मसञ्ज्ञितम्।
यत्त्वयोक्तं वचस्तेन
मोहोऽयं विगतो मम॥

Verse 2

भवाप्ययौ हि भूतानाम्
श्रुतौ विस्तरशो मया।
त्वत्तःकमलपत्राक्ष
माहात्म्यमपि चाव्ययम्॥

Verse 3

एवमेतद्यथात्थ त्वम्
आत्मानं परमेश्वर।
द्रष्टुमिच्छामि ते रूपम्
ऐश्वरं पुरुषोत्तम॥

Verse 4

मन्यसे यदि तच्छक्यम्
मया द्रष्टुमिति प्रभो।
योगेश्वर ततो मे त्वम्
दर्शयात्मानमव्ययम्॥

Verse 5

श्रीभगवानुवाच।
पश्य मे पार्थ रूपाणि
शतशोऽथ सहस्रशः।
नानाविधानि दिव्यानि
नानावर्णाकृतीनि च॥

Verse 6

पश्यादित्यान्वसून्‌रुद्रान्
अश्विनौ मरुतस्तथा।
बहून्यदृष्टपूर्वाणि
पश्याश्चर्याणि भारत॥

Verse 7

इहैकस्थं जगत्कृत्स्नम्
पश्याद्य सचराचरम्।
मम देहे गुडाकेश
यच्चान्यद्‌द्रष्टुमिच्छसि॥

Verse 8

न तु मां शक्यसे द्रष्टुम्
अनेनैव स्वचक्षुषा॥
दिव्यं ददामि ते चक्षुः
पश्य मे योगमैश्वरम्॥

Verse 9

सञ्जय उवाच।
एवमुक्त्वा ततो राजन्
महोयोगेश्वरो हरिः।
दर्शयामास पार्थाय
परमं रूपमैश्वरम्॥

Verse 10

अनेकवक्‌त्रनयनम
अनेकाद्भुतदर्शनम्।
अनेकदिव्याभरणम
दिव्यानेकोद्यतायुधम्॥