Chapter 11
The divine cosmic form

Lyrics :

Verse 41

सखेति मत्वा प्रसभं यदुक्तम्
हे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदम्
मया प्रमादात्प्रणयेन वापि॥

Verse 42

यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु।
एकोऽथवाप्यच्युत तत्समक्षम्
तत्क्षामये त्वामहमप्रमेयम्॥

Verse 43

पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान्।
न त्वत्समोऽस्त्यभ्यधिकःकुतोऽन्यः
लोकत्रयेऽप्यप्रतिमप्रभाव॥

Verse 44

तस्मात्प्रणम्य प्रणिधाय कायम्
प्रसादये त्वामहमीशमीड्यम्।
पितेव पुत्रस्य सखेव सख्युः
प्रियःप्रियायार्हसि देव सोढुम्॥

Verse 45

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे।
तदेव मे दर्शय देवरूपम्
प्रसीद देवेश जगन्निवास॥

Verse 46

किरीटिनं गदिनं चक्रहस्तम्
इच्छामि त्वां द्रष्टुमहं तथैव॥
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते॥

Verse 47

श्रीभगवानुवाच।
मया प्रसन्नेन तवार्जुनेदम्
रूपं परं दर्शितमात्मयोगात्।
तेजोमयं विश्वमनन्तमाद्यम
यन्मे त्वदन्येन न दृष्टपूर्वम्॥

Verse 48

न वेदयज्ञाध्ययनैर्न दानैः
न च क्रियाभिर्न तपोभिरुग्रैः।
एवंरूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर॥

Verse 49

मा ते व्यथा मा च विमूढभावः
दृष्ट्वा रूपं घोरमीदृङ्‌ममेदम्।
व्यपेतभीःप्रीतमनाःपुनस्त्वम्
तदेव मे रूपमिदम् प्रपश्य॥

Verse 50

सञ्जय उवाच।
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनम्
भूत्वा पुनःसौम्यवपुर्महात्मा॥