Chapter 11
The divine cosmic form

Lyrics :

Verse 11

दिव्यमाल्याम्बरधरम
दिव्यगन्धानुलेपनम्।
सर्वाश्चर्यमयं देवम्
अनन्तं विश्वतोमुखम्॥

Verse 12

दिवि सूर्यसहस्रस्य
भवेद्युगपदुत्थिता।
यदि भाःसदृशी सा स्यात्
भासस्तस्य महात्मनः॥

Verse 13

तत्रैकस्थं जगत्कृत्स्नम्
प्रविभक्तमनेकधा।
अपश्यद्देवदेवस्य
शरीरे पाण्डवस्तदा॥

Verse 14

ततःस विस्मयाविष्टः
हृष्टरोमा धनञ्जयः।
प्रणम्य शिरसा देवम्
कृताञ्जलिरभाषत॥

Verse 15

अर्जुन उवाच।
पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसङ्घान्।
ब्रह्माणमीशं कमलासनस्थम्
ऋषींश्च सर्वानुरगान्श्च दिव्यान्॥

Verse 16

अनेकबाहूदरवक्त्रनेत्रम्
पश्यामि त्वां सर्वतोऽनन्तरूपम्।
नान्तं न मध्यं न पुनस्तवादिम्
पश्यामि विश्वेश्वर विश्वरूप॥

Verse 17

किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमन्तम्।
पश्यामि त्वां दुर्निरीक्ष्यं समन्तात्
दीप्तानलार्कद्युतिमप्रेमेयम्॥

Verse 18

त्वमक्षरं परमं वेदितव्यम्
त्वमस्य विश्वस्य परं निधानम्।
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे॥

Verse 19

अनादिमध्यान्तमनन्तवीर्यम्
अनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामि त्वां दीप्तहुताशवक्त्रम्
स्वतेजसा विश्वमिदं तपन्तम्॥

Verse 20

द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदम्
लोकत्रयं प्रव्यथितं महात्मन्॥