Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Gītā Chanting
Chapter 11
Chapter 11
The divine cosmic form
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
31-40
41-50
51-55
Verse 21
अमी हि त्वां सुरसङ्घा विशन्ति
केचिद्भीताःप्राञ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥
Expand / Collapse
Verse 22
रुद्रादित्या वसवो ये च साध्याः
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसङ्घाः
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥
Expand / Collapse
Verse 23
रुपं महत्ते बहुवक्त्रनेत्रम्
महाबाहो बहुबाहूरुपादम्।
बहूदरं बहुदंष्ट्राकरालम
दृष्ट्वा लोकाःप्रव्यथितास्तथाहम्॥
Expand / Collapse
Verse 24
नभःस्पृशं दीप्तमनेकवर्णम
व्यात्ताननं दीप्तविशालनेत्रम्।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो॥
Expand / Collapse
Verse 25
दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानलसन्निभानि।
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास॥
Expand / Collapse
Verse 26
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः।
भीष्मो द्रोणःसूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः॥
Expand / Collapse
Verse 27
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि।
केचिद्विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः॥
Expand / Collapse
Verse 28
यथा नदीनां बहवोऽम्बुवेगाः
समुद्रमेवाभिमुखा द्रवन्ति।
तथा तवामी नरलोकवीराः
विशन्ति वक्त्राण्यभिविज्वलन्ति॥
Expand / Collapse
Verse 29
यथा प्रदीप्तं ज्वलनं पतङ्गाः
विशन्ति नाशाय समृद्धवेगाः।
तथैव नाशाय विशन्ति लोकाः
तवापि वक्त्राणि समृद्धवेगाः॥
Expand / Collapse
Verse 30
लेलिह्यसे ग्रसमानःसमन्तात्
लोकान्समग्रान्वदनैर्ज्वलद्भिः।
तेजोभिरापूर्य जगत्समग्रम्
भासस्तवोग्राः प्रतपन्ति विष्णो॥
Expand / Collapse
Prev
Next