Chapter 11
The divine cosmic form

Lyrics :

Verse 51

अर्जुन उवाच।
दृष्ट्वेदं मानुषं रूपम् 
तव सौम्यं जनार्दन।
इदानीमस्ति संवृत्तः
सचेताःप्रकृतिं गतः॥

Verse 52

श्रीभगवानुवाच।
सुदुर्दर्शमिदं रूपम् 
दृष्टवानसि यन्मम।
देवा अप्यस्य रूपस्य
नित्यं दर्शनकाङ्‌क्षिणः॥

Verse 53

नाहं वेदैर्न तपसा 
न दानेन न चेज्यया।
शक्य एवंविधो द्रष्टुम्
दृष्टवानसि मां यथा॥

Verse 54

भक्त्या त्वनन्यया शक्यः
अहमेवंविधोऽर्जुन।
ज्ञातुं द्रष्टुं च तत्त्वेन
प्रवेष्टुं च परन्तप॥

Verse 55

मत्कर्मकृन्मत्परम
मद्भक्तःसङ्गवर्जितः।
निर्वैरःसर्वभूतेषु 
यःस मामेति पाण्डव॥

Conclusion

ॐ तत् सत् इति
श्रीमद्‌भगवद्‌गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
विश्वरूपदर्शनयोगो नाम
एकादशोऽध्यायः॥