Chapter 16
Divine & Devilish estates

Lyrics :

Introduction

ॐ श्रीपरमात्मने नमः।
अथ षोडशोऽध्यायः।
दैवासुरसम्पद्विभागयोगः।

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

श्रीभगवानुवाच।
अभयं सत्त्वसंशुद्धिः
ज्ञानयोगव्यवस्थितिः।
दानं दमश्च यज्ञश्च
स्वाध्यायस्तप आर्जवम्॥

Verse 2

अहिंसा सत्यमक्रोधः
त्यागः शान्तिरपैशुनम्।
दया भूतेष्वलोलुप्त्वम्
मार्दवं ह्रीरचापलम्॥

Verse 3

तेजः क्षमा धृतिः शौचम्
अद्रोहो नातिमानिता।
भवन्ति सम्पदं दैवीम्
अभिजातस्य भारत॥

Verse 4

दम्भो दर्पोऽभिमानश्च
क्रोधः पारुष्यमेव च।
अज्ञानं चाभिजातस्य
पार्थ सम्पदमासुरीम्॥

Verse 5

दैवी सम्पद्विमोक्षाय
निबन्धायासुरी मता।
मा शुचः सम्पदं दैवीम्
अभिजातोऽसि पाण्डव॥

Verse 6

द्वौ भूतसर्गौ लोकेऽस्मिन्
दैव आसुर एव च।
दैवो विस्तरशः प्रोक्तः
आसुरं पार्थ मे शृणु॥

Verse 7

प्रवृत्तिं च निवृत्तिं च
जना न विदुरासुराः।
न शौचं नापि चाचारः
न सत्यं तेषु विद्यते॥

Verse 8

असत्यमप्रतिष्ठं ते
जगदाहुरनीश्वरम्।
अपरस्परसम्भूतम्
किमन्यत्कामहैतुकम्॥

Verse 9

एतां दृष्टिमवष्टभ्य
नष्टात्मानोऽल्पबुद्धयः।
प्रभवन्त्युग्रकर्माणः
क्षयाय जगतोऽहिताः॥

Verse 10

काममाश्रित्य दुष्पूरम्
दम्भामानमदान्विताः।
मोहाद्‌गृहीत्वासद्‌ग्राहान्
प्रवर्तन्तेऽशुचिव्रताः॥