Chapter 16
Divine & Devilish estates

Lyrics :

Verse 11

चिन्तामपरिमेयां च
प्रलयान्तामुपाश्रिताः।
कामोपभोगपरमाः
एतावदिति निश्चिताः॥

Verse 12

आशापाशशतैर्बद्धाः
कामक्रोधपरायणाः।
ईहन्ते कामभोगार्थम्
अन्यायेनार्थसञ्चयान्॥

Verse 13

इदमद्य मया लब्धम्
इमं प्राप्स्ये मनोरथम्।
इदस्मस्तीदमपि मे
भविष्यति पुनर्धनम्॥

Verse 14

असौ मया हतःशत्रुः
हनिष्ये चापरानपि।
ईश्वरोऽहमहं भोगी
सिद्धोऽहं बलवान्सुखी॥

Verse 15

आढ्योऽभिजनवानस्मि
कोऽन्योऽस्ति सदृशो मया।
यक्ष्ये दास्यामि मोदिष्ये
इत्यज्ञानविमोहिताः॥

Verse 16

अनेकचित्तविभ्रान्ताः
मोहजालसमावृताः।
प्रसक्ताः कामभोगेषु
पतन्ति नरकेऽशुचौ॥

Verse 17

आत्मसम्भाविताः स्तब्धाः
धनमानमदान्विताः।
यजन्ते नामयज्ञैस्ते
दम्भेनाविधिपूर्वकम्॥

Verse 18

अहङ्कारं बलं दर्पम्
कामं क्रोधं च संश्रिताः।
मामात्मपरदेहेषु
प्रद्विषन्तोऽभ्यसूयकाः॥

Verse 19

तानहं द्विषतः क्रूरान्
संसारेषु नराधमान्।
क्षिपाम्यजस्रमशुभान्
आसुरीष्वेव योनिषु॥

Verse 20

आसुरीं योनिमापन्नाः
मूढा जन्मनि जन्मनि।
मामप्राप्यैव कौन्तेय
ततो यान्त्यधमां गतिम्॥