Chapter 16
Divine & Devilish estates

Lyrics :

Verse 21

त्रिविधं नरकस्येदम्
द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभः
तस्मादेतत्‌त्रयं त्यजेत्॥

Verse 22

एतैर्विमुक्तः कौन्तेय
तमोद्वारैस्त्रिभिर्नरः।
आचरत्यात्मनः श्रेयः
ततो याति परां गतिम्॥

Verse 23

यः शास्त्रविधिमुत्सृज्य
वर्तते कामकारतः।
न स सिद्धिमवाप्नोति
न सुखं न परां गतिम्॥

Verse 24

तस्माच्छास्त्रं प्रमाणं ते
कार्याकार्यव्यवस्थितौ।
ज्ञात्वा शास्त्रविधानोक्तम्
कर्म कर्तुमिहार्हसि॥

Conclusion

ॐ तत् सत् इति
श्रीमद्‌भगवद्‌गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
दैवासुरसम्पद्विभागयोगो नाम
षोडशोऽध्यायः॥