Chapter 14
The three moods

Lyrics :

Introduction

ॐ श्रीपरमात्मने नमः।
अथ चतुर्दशोऽध्यायः।
गुणत्रयविभागयोगः।

Verse 1

श्रीभगवानुवाच।
परं भूयः प्रवक्ष्यामि
ज्ञानानां ज्ञानमुत्तमम्।
यज्ज्ञात्वा मुनयः सर्वे
परां सिद्धिमितो गताः॥

Verse 2

इदं ज्ञानमुपाश्रित्य
मम साधर्म्यमागताः।
सर्गेऽपि नोपजायन्ते
प्रलये न व्यथन्ति च॥

Verse 3

मम योनिर्महद्‌ब्रह्म
तस्मिन्गर्भं दधाम्यहम्।
सम्भवःसर्वभूतानाम्
ततो भवति भारत॥

Verse 4

सर्वयोनिषु कौन्तेय
मूर्तयः सम्भवन्ति याः।
तासां ब्रह्म महद्योनिः
अहं बीजप्रदः पिता॥

Verse 5

सत्त्वं रजस्तम इति
गुणाः प्रकृतिसम्भवाः।
निबध्नन्ति महाबाहो
देहे देहिनमव्ययम्॥

Verse 6

तत्र सत्त्वं निर्मलत्वात्
प्रकाशकमनामयम्।
सुखसङ्गेन बध्नाति
ज्ञानसङ्गेन चानघ॥

Verse 7

रजो रागात्मकं विद्धि
तृष्णासङ्गसमुद्भवम्।
तन्निबध्नाति कौन्तेय
कर्मसङ्गेन देहिनम्॥

Verse 8

तमस्त्वज्ञानजं विद्धि
मोहनं सर्वदेहिनाम्।
प्रमादालस्यनिद्राभिः
तन्निबध्नाति भारत॥

Verse 9

सत्त्वं सुखे सञ्जयति
रजः कर्मणि भारत।
ज्ञानमावृत्य तु तमः
प्रमादे सञ्जयत्युत॥

Verse 10

रजस्तमश्चाभिभूय
सत्त्वं भवति भारत।
रजःसत्त्वं तमश्चैव
तमः सत्त्वं रजस्तथा॥