Chapter 14
The three moods

Lyrics :

Verse 21

अर्जुन उवाच।
कैर्लिङ्गैस्त्रीन्गुणानेतान्
अतीतो भवति प्रभो।
किमाचारः कथं चैतान्
त्रीन्गुणानतिवर्तते॥

Verse 22

श्रीभगवानुवाच।
प्रकाशं च प्रवृत्तिं च
मोहमेव च पाण्डव।
न द्वेष्टि सम्प्रवृत्तानि
न निवृत्तानि काङ्क्षति॥

Verse 23

उदासीनवदासीनः
गुणैर्यो न विचाल्यते।
गुणा वर्तन्त इत्येव
योऽवतिष्ठति नेङ्गते॥

Verse 24

समदुःखसुखः स्वस्थः
समलोष्टाश्मकाञ्चनः॥
तुल्यप्रियाप्रियो धीरः
तुल्यनिन्दात्मसंस्तुतिः॥

Verse 25

मानापमानयोस्तुल्यः
तुल्योमित्रारिपक्षयोः॥
सर्वारम्भपरित्यागी
गुणातीतः स उच्यते॥

Verse 26

मां च योऽव्यभिचारेण
भक्तियोगेन सेवते।
स गुणान्समतीत्यैतान्
ब्रह्मभूयाय कल्पते॥

Verse 27

ब्रह्मणो हि प्रतिष्ठाहम्
अमृतस्याव्ययस्य च।
शाश्वतस्य च धर्मस्य
सुखस्यैकान्तिकस्य च॥

Conclusion

ॐ तत् सत् इति
श्रीमद्‌भगवद्‌गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
गुणत्रयविभागयोगो नाम
चतुर्दशोऽध्यायः॥