Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Gītā Chanting
Chapter 14
Chapter 14
The three moods
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-27
Verse 11
सर्वद्वारेषु देहेऽस्मिन्
प्रकाश उपजायते।
ज्ञानं यदा तदा विद्यात्
विवृद्धं सत्त्वमित्युत॥
Expand / Collapse
Verse 12
लोभः प्रवृत्तिरारम्भः
कर्मणामशमः स्पृहा।
रजस्येतानि जायन्ते
विवृद्धे भरतर्षभ॥
Expand / Collapse
Verse 13
अप्रकाशोऽप्रवृत्तिश्च
प्रमादो मोह एव च।
तमस्येतानि जायन्ते
विवृद्धे कुरुनन्दन॥
Expand / Collapse
Verse 14
यदा सत्त्वे प्रवृद्धे तु
प्रलयं याति देहभृत्।
तदोत्तमविदां लोकान्
अमलान्प्रतिपद्यते॥
Expand / Collapse
Verse 15
रजसि प्रलयं गत्वा
कर्मसङ्गिषु जायते।
तथा प्रलीनस्तमसि
मूढयोनिषु जायते॥
Expand / Collapse
Verse 16
कर्मणः सुकृतस्याहुः
सात्त्विकं निर्मलं फलम्।
रजसस्तु फलं दुःखम्
अज्ञानं तमसः फलम्॥
Expand / Collapse
Verse 17
सत्त्वात्सञ्जायते ज्ञानम्
रजसो लोभ एव च।
प्रमादमोहौ तमसः
भवतोऽज्ञानमेव च॥
Expand / Collapse
Verse 18
ऊर्ध्वं गच्छन्ति सत्त्वस्थाः
मध्ये तिष्ठन्ति राजसाः।
जघन्यगुणवृत्तिस्थाः
अधो गच्छन्ति तामसाः॥
Expand / Collapse
Verse 19
नान्यं गुणेभ्यः कर्तारम्
यदा द्रष्टानुपश्यति।
गुणेभ्यश्च परं वेत्ति
मद्भावं सोऽधिगच्छति॥
Expand / Collapse
Verse 20
गुणानेतानतीत्य त्रीन्
देही देहसमुद्भवान्।
जन्ममृत्युजरादुःखैः
विमुक्तोऽमृतमश्नुते॥
Expand / Collapse
Prev
Next