Chapter 17
The three-fold faith

Lyrics :

Introduction

ॐ श्रीपरमात्मने नमः।
अथ सप्तदशोऽध्यायः।
श्रद्धात्रयविभागयोगः।

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

अर्जुन उवाच।
ये शास्त्रविधिमुत्सृज्य
यजन्ते श्रद्धयान्विताः।
तेषां निष्ठा तु का कृष्ण
सत्त्वमाहो रजस्तमः॥

Verse 2

श्रीभगवानुवाच।
त्रिविधा भवति श्रद्धा
देहिनां सा स्वभावजा।
सात्त्विकी राजसी चैव
तामसी चेति तां शृणु॥

Verse 3

सत्त्वानुरूपा सर्वस्य
श्रद्धा भवति भारत।
श्रद्धामयोऽयं पुरुषः
यो यच्छ्रद्धः स एव सः॥

Verse 4

यजन्ते सात्त्विका देवान्
यक्षरक्षांसि राजसाः।
प्रेतान्भूतगणांश्चान्ये
यजन्ते तामसा जनाः॥

Verse 5

अशास्त्रविहितं घोरम्
तप्यन्ते ये तपो जनाः।
दम्भाहङ्कारसंयुक्ताः
कामरागबलान्विताः॥

Verse 6

कर्शयन्तः शरीरस्थम्
भूतग्राममचेतसः।
मां चैवान्तः शरीरस्थम्
तान्विद्ध्यासुरनिश्चयान्॥

Verse 7

आहारस्त्वपि सर्वस्य
त्रिविधो भवति प्रियः।
यज्ञस्तपस्तथा दानम्
तेषां भेदमिमं शृणु॥

Verse 8

आयुःसत्त्वबलारोग्य-
सुखप्रीतिविवर्धनाः।
रस्याःस्निग्धाःस्थिरा हृद्याः
आहाराः सात्त्विकप्रियाः॥

Verse 9

कट्वम्ललवणात्युष्ण-
तीक्ष्णरूक्षविदाहिनः।
आहारा राजसस्येष्टाः
दुःखशोकामयप्रदाः॥

Verse 10

यातयामं गतरसम्
पूति पर्युषितं च यत्।
उच्छिष्टमपि चामेध्यम्
भोजनं तामसप्रियम्॥