Chapter 17
The three-fold faith

Lyrics :

Verse 21

यत्तु प्रत्युपकारार्थम्
फलमुद्दिश्य वा पुनः।
दीयते च परिक्लिष्टम्
तद्दानं राजसं स्मृतम्॥

Verse 22

अदेशकाले यद्दानम्
अपात्रेभ्यश्च दीयते।
असत्कृतमवज्ञातम्
तत्तामसमुदाहृतम्॥

Verse 23

ओं तत्सदिति निर्देशः
ब्रह्मणस्त्रिविधः स्मृतः।
ब्राह्मणास्तेन वेदाश्च
यज्ञाश्च विहिताः पुरा॥

Verse 24

तस्मादोमित्युदाहृत्य
यज्ञदानतपःक्रियाः।
प्रवर्तन्ते विधानोक्ताः
सततं ब्रह्मवादिनाम्॥

Verse 25

तदित्यनभिसन्धाय
फलं यज्ञतपः क्रियाः।
दानक्रियाश्च विविधाः
क्रियन्ते मोक्षकाङ्क्षिभिः॥

Verse 26

सद्भावे साधुभावे च
सदित्येतत्प्रयुज्यते।
प्रशस्ते कर्मणि तथा
सच्छब्दः पार्थ युज्यते॥

Verse 27

यज्ञे तपसि दाने च
स्थितिः सदिति चोच्यते।
कर्म चैव तदर्थीयम्
सदित्येवाभिधीयते॥

Verse 28

अश्रद्धया हुतं दत्तम्
तपस्तप्तं कृतं च यत्।
असदित्युच्यते पार्थ
न च तत्प्रेत्य नो इह॥

Conclusion

ॐ तत् सत् इति
श्रीमद्‌भगवद्‌गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम
सप्तदशोऽध्यायः॥