Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2024
About
Gītā Chanting
Chapter 17
Chapter 17
The three-fold faith
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-28
Verse 11
अफलाकाङ्क्षिभिर्यज्ञः
विधिदृष्टो य इज्यते।
यष्टव्यमेवेति मनः
समाधाय स सात्त्विकः॥
Expand / Collapse
Verse 12
अभिसन्धाय तु फलम्
दम्भार्थमपि चैव यत्।
इज्यते भरतश्रेष्ठ
तं यज्ञं विद्धि राजसम्॥
Expand / Collapse
Verse 13
विधिहीनमसृष्टान्नम्
मन्त्रहीनमदक्षिणम्।
श्रद्धाविरहितं यज्ञम्
तामसं परिचक्षते॥
Expand / Collapse
Verse 14
देवद्विजगुरुप्राज्ञ-
पूजनं शौचमार्जवम्।
ब्रह्मचर्यमहिंसा च
शारीरं तप उच्यते॥
Expand / Collapse
Verse 15
अनुद्वेगकरं वाक्यम्
सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव
वाङ्मयं तप उच्यते॥
Expand / Collapse
Verse 16
मनःप्रसादः सौम्यत्वम्
मौनमात्मविनिग्रहः।
भावसंशुद्धिरित्येतत्
तपो मानसमुच्यते॥
Expand / Collapse
Verse 17
श्रद्धया परया तप्तम्
तपस्तत्त्रिविधं नरैः।
अफलकाङ्क्षिभिर्युक्तैः
सात्त्विकं परिचक्षते॥
Expand / Collapse
Verse 18
सत्कारमानपूजार्थम्
तपो दम्भेन चैव यत्।
क्रियते तदिह प्रोक्तम्
राजसं चलमध्रुवम्॥
Expand / Collapse
Verse 19
मूढग्राहेणात्मनो यत्
पीडया क्रियते तपः।
परस्योत्सादनार्थं वा
तत्तामसमुदाहृतम्॥
Expand / Collapse
Verse 20
दातव्यमिति यद्दानम्
दीयतेऽनुपकारिणे।
देशे काले च पात्रे च
तद्दानं सात्त्विकं स्मृतम्॥
Expand / Collapse
Prev
Next