Chapter 3
Unfoldment through Action

Lyrics :

Introduction

[ ॐ श्रीपरमात्मने नमः। ]
अथ तृतीयोऽध्यायः।
कर्मयोगः।

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

अर्जुन उवाच।
ज्यायसी चेत्कर्मणस्ते
मता बुद्धिर्जनार्दन।
तत् किं कर्मणि घोरे माम्
नियोजयसि केशव॥

Verse 2

व्यामिश्रेणेव वाक्येन
बुद्धिं मोहयसीव मे।
तदेकं वद निश्चित्य
येन श्रेयोऽहमाप्नुयाम्॥

Verse 3

श्रीभगवानुवाच।
लोकेऽस्मिन्द्विविधा निष्ठा
पुरा प्रोक्ता मयानघ।
ज्ञानयोगेन साङ्ख्‌यानाम्
कर्मयोगेन योगिनाम्॥

Verse 4

न कर्मणामनारम्भात्
नैष्कर्म्यं पुरुषोऽश्नुते।
न च सन्न्यसनादेव
सिद्धिं समधिगच्छति॥

Verse 5

न हि कश्चित्क्षणमपि
जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवशः कर्म
सर्वः प्रकृतिजैर्गुणैः॥

Verse 6

कर्मेन्द्रियाणि संयम्य
य आस्ते मनसा स्मरन्।
इन्द्रियार्थान्विमूढात्मा
मिथ्याचारः स उच्यते॥

Verse 7

यस्त्विन्द्रियाणि मनसा
नियम्यारभतेऽर्जुन।
कर्मेन्द्रियैः कर्मयोगम्
असक्तः स विशिष्यते॥

Verse 8

नियतं कुरु कर्म त्वम्
कर्म ज्यायो ह्यकर्मणः।
शरीरयात्रापि च ते
न प्रसिद्‌ध्येदकर्मणः॥

Verse 9

यज्ञार्थात्कर्मणोऽन्यत्र
लोकोऽयं कर्मबन्धनः।
तदर्थं कर्म कौन्तेय
मुक्तसङ्गः समाचर॥

Verse 10

सहयज्ञाः प्रजाः सृष्ट्वा
पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्वम्
एष वोऽस्त्विष्टकामधुक्॥