Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Gītā Chanting
Chapter 3
Chapter 3
Unfoldment through Action
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
31-43
Verse 11
देवान्भावयतानेन
ते देवा भावयन्तु वः।
परस्परं भावयन्तः
श्रेयः परमवाप्स्यथ॥
Expand / Collapse
Verse 12
इष्टान्भोगान्हि वो देवाः
दास्यन्ते यज्ञभाविताः।
तैर्दत्तानप्रदायैभ्यः
यो भुङ्क्ते स्तेन एव सः॥
Expand / Collapse
Verse 13
यज्ञशिष्टाशिनः सन्तः
मुच्यन्ते सर्वकिल्बिषैः।
भुञ्जते ते त्वघं पापाः
ये पचन्त्यात्मकारणात्॥
Expand / Collapse
Verse 14
अन्नाद्भवन्ति भूतानि
पर्जन्यादन्नसम्भवः।
यज्ञाद्भवति पर्जन्यः
यज्ञः कर्मसमुद्भवः॥
Expand / Collapse
Verse 15
कर्म ब्रह्मोद्भवं विद्धि
ब्रह्माक्षरसमुद्भवम्।
तस्मात्सर्वगतं ब्रह्म
नित्यं यज्ञे प्रतिष्ठितम्॥
Expand / Collapse
Verse 16
एवं प्रवर्तितं चक्रम्
नानुवर्तयतीह यः।
अघायुरिन्द्रियारामः
मोघं पार्थ स जीवति॥
Expand / Collapse
Verse 17
यस्त्वात्मरतिरेव स्यात्
आत्मतृप्तश्च मानवः।
आत्मन्येव च सन्तुष्टः
तस्य कार्यं न विद्यते॥
Expand / Collapse
Verse 18
नैव तस्य कृतेनार्थः
नाकृतेनेह कश्चन।
न चास्य सर्वभूतेषु
कश्चिदर्थव्यपाश्रयः॥
Expand / Collapse
Verse 19
तस्मादसक्तः सततम्
कार्यं कर्म समाचर।
असक्तो ह्याचरन्कर्म
परमाप्नोति पूरुषः॥
Expand / Collapse
Verse 20
कर्मणैव हि संसिद्धिम्
आस्थिता जनकादयः।
लोकसङ्ग्रहमेवापि
सम्पश्यन्कर्तुमर्हसि॥
Expand / Collapse
Prev
Next