Chapter 3
Unfoldment through Action

Lyrics :

Verse 21

यद्यदाचरति श्रेष्ठः
तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते
लोकस्तदनुवर्तते॥

Verse 22

न मे पार्थास्ति कर्तव्यम्
त्रिषु लोकेषु किञ्चन।
नानवाप्तमवाप्तव्यम्
वर्त एव च कर्मणि॥

Verse 23

यदि ह्यहं न वर्तेयम्
जातु कर्मण्यतन्द्रितः।
मम वर्त्मानुवर्तन्ते
मनुष्याः पार्थ सर्वशः॥

Verse 24

उत्सीदेयुरिमे लोकाः
न कुर्यां कर्म चेदहम्।
सङ्करस्य च कर्ता स्याम्
उपहन्यामिमाः प्रजाः॥

Verse 25

सक्ताः कर्मण्यविद्वांसः
यथा कुर्वन्ति भारत।
कुर्याद्विद्वांस्तथासक्तः
चिकीर्षुर्लोकसङ्ग्रहम्॥

Verse 26

न बुद्धि भेदं जनयेत्
अज्ञानां कर्मसङ्गिनाम्।
जोषयेत्सर्वकर्माणि
विद्वान्युक्तः समाचरन्॥

Verse 27

प्रकृतेः क्रियमाणानि
गुणैः कर्माणि सर्वशः।
अहङ्कारविमूढात्मा
कर्ताहमिति मन्यते॥

Verse 28

तत्त्ववित्तु महाबाहो
गुणकर्मविभागयोः।
गुणा गुणेषु वर्तन्ते
इति मत्वा न सज्जते॥

Verse 29

प्रकृतेर्गुणसम्मूढाः
सज्जन्ते गुणकर्मसु।
तानकृत्स्नविदो मन्दान्
कृत्स्नविन्नविचालयेत्॥

Verse 30

मयि सर्वाणि कर्माणि
सन्न्यस्याध्यात्मचेतसा।
निराशीर्निर्ममो भूत्वा
युध्यस्व विगतज्वरः॥