Chapter 8
The Imperishable Brahman

Lyrics :

Verse 11

यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं संग्रहेण प्रवक्ष्ये॥

Verse 12

सर्वद्वाराणि संयम्य
मनो हृदि निरुध्य च।
मूर्ध्न्याधायात्मनः प्राणम्
आस्थितो योगधारणाम्॥

Verse 13

ओमित्येकाक्षरं ब्रह्म
व्याहरन्मामनुस्मरन्।
यः प्रयाति त्यजन्देहम्
स याति परमां गतिम्॥

Verse 14

अनन्यचेताः सततम्
यो मां स्मरति नित्यशः।
तस्याहं सुलभः पार्थ
नित्ययुक्तस्य योगिनः॥

Verse 15

मामुपेत्य पुनर्जन्म
दुःखालयमशाश्वतम्।
नाप्नुवन्ति महात्मानः
संसिद्धिं परमां गताः॥

Verse 16

आब्रह्मभुवनाल्लोकाः
पुनरावर्तिनोऽर्जुन।
मामुपेत्य तु कौन्तेय
पुनर्जन्म न विद्यते॥

Verse 17

सहस्रयुगपर्यन्तम्
अहर्यद्‌ब्रह्मणो विदुः।
रात्रिं युगसहस्रान्ताम्
तेऽहोरात्रविदो जनाः॥

Verse 18

अव्यक्ताद्‌व्यक्तयः सर्वाः
प्रभवन्त्यहरागमे।
रात्र्यागमे प्रलीयन्ते
तत्रैवाव्यक्तसंज्ञके॥

Verse 19

भूतग्रामः स एवायम्
भूत्वा भूत्वा प्रलीयते।
रात्र्यागमेऽवशः पार्थ
प्रभवत्यहरागमे॥

Verse 20

परस्तस्मात्तु
भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः।
यः स सर्वेषु भूतेषु
नश्यत्सु न विनश्यति॥