Chapter 8
The Imperishable Brahman

Lyrics :

Introduction

[ ॐ श्रीपरमात्मने नमः। ]
अथ अष्टमोऽध्यायः।
अक्षरब्रह्मयोगः।

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

अर्जुन उवाच।
किं तद्‌ब्रह्म किमध्यात्मम्
किं कर्म पुरुषोत्तम।
अधिभूतं च किं प्रोक्तम्
अधिदैवं किमुच्यते॥

Verse 2

अधियज्ञः कथं कोऽत्र
देहेऽस्मिन्मधुसूदन।
प्रयाणकाले च कथम्
ज्ञेयोऽसि नियतात्मभिः॥

Verse 3

श्रीभगवानुवाच।
अक्षरं ब्रह्म परमम्
स्वभावोऽध्यात्ममुच्यते।
भूतभावोद्भवकरः
विसर्गः कर्मसंज्ञितः॥

Verse 4

अधिभूतं क्षरो भावः
पुरुषश्चाधिदैवतम्।
अधियज्ञोऽहमेवात्र
देहे देहभृतां वर॥

Verse 5

अन्तकाले च मामेव
स्मरन्मुक्त्वा कलेवरम्।
यः प्रयाति स मद्भावम्
याति नास्त्यत्र संशयः॥

Verse 6

यं यं वापि स्मरन्भावम्
त्यजत्यन्ते कलेवरम्।
तं तमेवैति कौन्तेय
सदा तद्‌भावभावितः॥

Verse 7

तस्मात्सर्वेषु कालेषु
मामनुस्मर युध्य च।
मय्यर्पितमनोबुद्धिः
मामेवैष्यस्यसंशयम्॥

Verse 8

अभ्यासयोगयुक्तेन
चेतसा नान्यगामिना।
परमं पुरुषं दिव्यम्
याति पार्थानुचिन्तयन्॥

Verse 9

कविं पुराणमनुशासितारम्
अणोरणीयांसमनुस्मरेद्यः।
सर्वस्य धातारमचिन्त्यरूपम्
आदित्यवर्णं तमसः परस्तात्॥

Verse 10

प्रयाणकाले मनसाचलेन
भक्त्या युक्तो योगबलेन चैव।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम्॥