Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Gītā Chanting
Chapter 8
Chapter 8
The Imperishable Brahman
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-28
Verse 21
अव्यक्तोऽक्षर इत्युक्तः
तमाहुः परमां गतिम्।
यं प्राप्य न निवर्तन्ते
तद्धाम परमं मम॥
Expand / Collapse
Verse 22
पुरुषः स परः पार्थ
भक्त्या लभ्यस्त्वनन्यया॥
यस्यान्तःस्थानि भूतानि
येन सर्वमिदं ततम्।
Expand / Collapse
Verse 23
यत्र काले त्वनावृत्तिम्
आवृत्तिं चैव योगिनः।
प्रयाता यान्ति तं कालम्
वक्ष्यामि भरतर्षभ॥
Expand / Collapse
Verse 24
अग्निर्ज्योतिरहः शुक्लः
षण्मासा उत्तरायणम्।
तत्र प्रयाता गच्छन्ति
ब्रह्म ब्रह्मविदो जनाः॥
Expand / Collapse
Verse 25
धूमो रात्रिस्तथा कृष्णः
षण्मासा दक्षिणायनम्।
तत्र चान्द्रमसं ज्योतिः
योगी प्राप्य निवर्तते॥
Expand / Collapse
Verse 26
शुक्लकृष्णे गती ह्येते
जगतः शाश्वते मते।
एकया यात्यनावृत्तिम्
अन्ययावर्तते पुनः॥
Expand / Collapse
Verse 27
नैते सृती पार्थ जानन्
योगी मुह्यति कश्चन।
तस्मात्सर्वेषु कालेषु
योगयुक्तो भवार्जुन॥
Expand / Collapse
Verse 28
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम्।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम्॥
Expand / Collapse
Conclusion
ॐ तत् सत् इति
श्रीमद्भगवद्गीतासु उपनिषत्सु
ब्रह्मविद्यायाम् योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
अक्षरब्रह्मयोगो नाम
अष्टमोऽध्यायः॥
Prev
Next